पञ्चरात्रशब्दवत् सिद्धान्तशब्दोऽपि चतुर्णो साधारण इति चात्रैव पूर्वमुक्तम् । पाद्मे च ’सदागमादिसिद्धान्तचतुप्के सत्पदप्रदे' इति चतुर्णो सत्पदशब्दवाच्यभगवत्पद[१]प्राप्तिसाधनत्वमुक्तम् । हयग्रीवसहितायामपि कस्यचिन्मोक्षैकान्त्यम् अन्येषामपि फलान्तरेण सह मोक्षप्रदत्वमुक्तम् ।
’आगमाख्यं हि सिद्धान्त सन्मोक्षैकफलप्रदम् । |
अत्र वाञ्छितार्थशब्देनाविशेषात् त्रिवर्गवदपवगोंऽपि सगृह्यते । अत एषा चतुर्णामपि परब्रह्मभूतवासुदेवप्रापकत्वात् अपवर्गार्थिभिर्मोक्षोपायोपदेश[३]प्रदेशेषु ’विकल्पोऽविशिष्टफलत्वात्' इति न्यायेन सदक्षरदहरमधुभूमवैश्वानरशाण्डिल्यनाचिकेतोपकोसलप्रतर्दनसंवर्गान्तरादित्यानन्दमयविद्यादिष्विव वैकल्पिक परिग्रह । ब्रह्मस्वरूपनिरूपकधर्मव्यतिरिक्ताना तत्तद्विद्याप्रतिनियतगुणाना यथा विद्यासु परस्परमनुपसंहारस्तथात्रापीति प्रत्येकं प्रतिनियताना प्रक्रियाणा परस्परासङ्करेण प्रयोग सिद्ध । यत्र तु मधु[४]विद्यादौ वसुपदप्राप्त्यादिपूर्वकब्रह्मप्राप्तिवत् परम्परया वासुदेवप्राप्तिरभिधीयते तत्रापि तत्तदर्वाचीनपर्वव्यवहितपरप्राप्तिकामानामधिकार इति व्यवस्था । तदभिप्रायेण चोक्तं भाष्ये –’तद्धि वासुदेवाख्यं परं
ब्रह्म सम्पूर्णषाड्गुण्यवपु सूक्ष्मव्यूहविभवभेदभित्रं यथाधिकार भक्तैर्ज्ञान-