सवृता परिवारेण स्वेन स्वेनोज्झितास्तु वा ।
यच्छक्तयाराधिता [१] सर्व विद्धि तन्त्रान्तरं तु तत् ॥
एव नानागमाना च सामान्यं विद्धि सर्वदा ।
नामद्वयं वा [२] सिद्धान्तपञ्चरात्रेति पौष्कर ॥
एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् ।
नानाशयवशेनैव सिद्धाद्यै प्रकटीकृतम् ॥
संक्षिप्त सप्रपञ्चं च तृतीयमुभयात्मकम् ।
सेतिहासपुराणैस्तु वेदवेदान्तसयुतै ॥
ये जन्मकोटिभि सिद्धास्तेषामन्तेऽत्र सस्थिति' । इति ।
|
अत्र एकैकस्य सिद्धान्तस्यामूलादेव बहुभिर्भेदै संस्थितत्ववचनात् चतुर्णा
सिद्धान्ताना तदवान्तरतन्त्रभेदाना च सिद्धान्तान्तरतन्त्रान्तरसङ्करपरिहारेणैव सर्वदावस्थानं सूचितम् ।
अत्र च [३] सिद्धान्तसज्ञितानामेषा चतुर्णामपि मोक्षप्रदत्वमनन्तर
चतुर्णामपि सिद्धान्तानां
मोक्षप्रदत्वम् ।
मेवोक्तम्--
यस्मात् [४] सम्यक् पर ब्रह्म वासुदेवाख्यमव्ययम् ।
एतस्मात् प्राप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा ।।
सिद्धान्तसज्ञा विप्रास्य सार्थका अत एव हि' । इति ।
|
अत्र सार्थका इति बहुवचनान्तसामानाधिकरण्यात् सिद्धान्तसंज्ञाशब्दोऽपि
बहुवचनान्त सन् आगमादिविशेषणयोगेन चतुर्धा संज्ञावस्थानमभिप्रैति ।
- ↑ आराधित- क, ख, ग, झ
- ↑ द्वय च- घ, ड, च, छ, ज
- ↑ चकार ख, ग, ज, झ, पुस्तकेषु नास्ति
- ↑ तस्मात्-क, ख, ग, झ