पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रीपाञ्चरात्ररक्षा

 श्रीपौष्करे च अधिकारिनिरूपणाध्याये प्रतिनियताधिकारिविषय-

सिद्धान्तानाम्
असाङ्कर्ये पौष्कर-
वचनविचार ।

त्वाभिप्रायेणैव सिद्धान्तभेदस्तदवान्तरभेदश्च दर्शित ।
यथा -

कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते ।
क्रमागतै स्वसज्ञाभिर्ब्राह्मणैरागम तु तत् ॥
विद्धि सिद्धान्तसज्ञ च तत्पूर्वमथ पौष्कर ।
नानाव्यूहसमेतं च मूर्तिद्वादशक हि तत् ॥
तथा मूर्त्यन्तरयुत प्रादुर्भावगण हि यद् ।
प्रादुर्भावान्तरयुत धृतं हृत्पद्मपूर्वके[१]
लक्ष्म्यादिशखचक्राख्य[२]गारुत्म्यसदिगीश्वरै ।
सगणैरस्त्रनिष्ठैश्च तद्विद्धि कमलोद्भव ॥
मन्त्रसिद्धान्तसज्ञ च शास्त्रं सर्वफलप्रदम् ।
विना मूर्तिचतुष्केण यत्रान्यदुपचर्यते ॥
मन्त्रेण भगवद्रूपं केवलं वाङ्गसवृतम् ।
युक्त श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ॥
भिन्नैराभरणैरस्त्रैरावृत च सविग्रहै ।
तन्त्रसज्ञ हि तच्छास्र परिज्ञेय हि चाब्जज ॥
मुख्यानु[३]वृत्तिभेदेन यत्र सिहादयस्तु वै ।
चतुस्त्रिद्व्यादिकेनैव योगेनाभ्यर्थितेन तु ॥

  1. तत् पद्मपूर्वक- ज
  2. चक्राख्या-घ
  3. मूल्यानुवृत्ति-घ