पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमोऽधिकारः

"हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः ।
निर्वाह क्रियते तद्वच्छास्त्रस्यास्यापि नान्यथा" ॥ इति ।

अस्यार्थः[१]--यथा "हविष्कृदाधावेति शूद्रस्य", "बहुयाजिनोऽगाराच्छूद्रवर्जम्" इत्यादिवाक्येषु कर्मविशेषाधिकारम्, उपचारविशेष वा समालम्ब्य निर्वाहस्तद्वदिहापीति । भट्टारकैश्च तन्त्रान्तरेभ्य इदं सार्वत्रिकेण प्रामाण्येन व्यभज्यत--

"तस्मात् सांख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रम्
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात्" । इति ।

तदेतत् "महतो वेदवृक्षस्य मूलभूतो महानयम्" इत्याद्युक्तानन्तशाखाश्रय-

चत्वार
सिद्धान्ता ।

ऋगादिस्कन्धभिदुरनिगमतरुमूलभागोपबृंहणरूप स्वमूलनिगमभागभेदात् [२]ऋगादिवदेव चतुर्धावतिष्ठते--आगमसिद्धान्तो मन्त्रसिद्धान्तस्तन्त्रसिद्धान्तस्तन्त्रान्तरसिद्धान्त इति ।

 चत्वारश्चैते सिद्धान्ता ऋगादिवदेव शाखाभेदैरवान्तरतन्त्रैर्भिद्यन्ते । तत्र, यथा ऋगादयो वेदभेदा तत्तच्छाखाभेदाश्च पूर्वपूर्वपरिग्रहानुसारेण

सिद्धान्तानाम्
असाङ्कर्यस्थापनम् ।

व्यवतिष्ठन्ते पुत्रादिभिश्च परिगृह्यन्ते तथा[३] सिद्धान्तभेदास्तदवान्तरभेदाश्च प्रथमपरिग्रहानुसारेण व्यवतिष्ठन्ते। यथा च[४] वाचनिकातिरिक्ते वेदान्तरशाखान्तरसूत्रान्तरसङ्करे दोषः तथेह सिद्धान्तसङ्करे तन्त्रसङ्करे प्रत्येकतन्त्रान्त पा[५]तिनियतवैकल्पिकधर्मादिसङ्करे च ।

  1. अयमर्थ--क, ख, ग, च, छ, ज, झ
  2. भागभेदवदृगदि--घ
  3. तथात्र--घ
  4. चकार ख पुस्तके नास्ति
  5. प्रतिनियत--ख.