पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रीपाञ्चरात्ररक्षा

असङ्कीर्णा चेयं व्यवस्था प्रमाणसहकृत[१]पारम्पर्यपर्यालोचनया व्यवस्थाप्या । इदं च 'गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात्[२]' भागवतानामब्राह्मण्यं पूर्वपक्षिणा प्रसजित परिहरद्भिर्भगवद्यामुनमुनिभिरर्थत समर्थितम्--"यदेते[३] वंशपरम्परया वाजसनेयशाखामधीयाना कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते । ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन[४] एकायनश्रुतिविहितानेव चत्वारिंशत् संस्काराननुतिष्ठन्ति[५] तेऽपि स्वशाखागृह्योक्तमर्थ यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते । अन्येषामपि परस्परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् । सर्वत्र[६] हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते । यद्यपि सर्वशाखाप्रत्ययमेक कर्म तथापि परस्परविलक्षणाधिकारिसंबद्धा धर्माः न क्वचित् समुच्चीयन्ते । विलक्षणाश्च त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्य त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्येकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्मणा इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति । यथा चैकायनशाखाया अपौरुषेयत्वं तथा काश्मीरागमप्रामाण्य एव प्रपञ्चितमिति नेह प्रस्तूयते । प्रकृतानां तु भागवतानां सावित्त्र्यनुवचनादित्रयीधर्मसम्बन्धस्य

स्फुटतरमुपलब्धि[७] न तत्त्यागनिमित्तव्रात्यत्वादिसन्देह सहते" इति ।

  1. प्रमाणान्तरसहकृत--क, ख, ग, च, झ
  2. संस्कारासेवनात्--छ, ज
  3. य एते--क, ख, ग, च, छ, ज, झ, यत एते--न्यायपरिशुद्धौ
  4. धर्मात्यागेन--न्यायपरिशुद्धौ
  5. संस्कारान् कुर्वते--घ, छ, ज, झ.
  6. सर्वे हि--ज
  7. उपलब्धे इति सर्वत्र पाठ, उपलब्धि इति तु न्यायपरिशुद्धौ