अत्र तावत् प्रत्यक्षितसमस्तवेदार्थतत्त्वस्थितिभिः पाराशर्यप्रभृतिभिर्महाभारतादिषु भगवच्छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि ।
पञ्चरात्राणा
प्रामाण्यम् ।
शारीरके च, कपिलकणभक्षभिक्षुक्षपणकपशुपतिसमयप्रतिक्षेपसमनन्तरं तन्त्रान्तरसहपाठादिसभवन्मन्दमतिव्यामोहशमनाय "उत्पत्यसम्भवात् ?", "न च कर्तुः करणम्" इति सूत्राभ्यां पूर्वपक्षमुपक्षिप्य, "विज्ञानाद्विभावे वा तदप्रतिषेधः ?", "विप्रतिषेधाच्च" इति सूत्रद्वयेन जीवोत्पत्याद्यनुप[१]पत्तितत्प्रतिषेध[२]प्रतिपादनद्वारेण सिद्धान्तः समर्थितः । भगवद्यामुनमुनिभिर्भाष्यकारैश्च--
"इदं महोपनिषद् चतुर्वेदसमन्वितम् । |
इत्यादिप्रमाणगणप्रतिपादितप्रक्रिया अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव्यतासग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन क्वचिदप्यप्रामाण्य न शङ्कनीयमिति निरणायि । कर्मकाण्डेऽपि प्रमाणलक्षणे सभवद्वेदविरोधानां व्यासाद्यपरिगृहीतानामेव स्मृतीनामप्रामाण्यमसूत्यूत । ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः समानयोगक्षेम सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि आगमप्रामाण्ये निराचक्रिरे । उक्तं च--
"तच्चेदेतच्छ्रुतिपथपरिभ्रष्टतन्त्रैः समानम् |
शूद्रार्चनादिप्रसङ्गे त्वेव प्रतिबन्दी श्रीकृष्णमुनिभिरुक्ता--