पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री: ॥

श्रीपाञ्चरात्ररक्षा

श्रीमन्निगमान्तमहादेशिकप्रणीता


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

सिद्धान्तव्यवस्थापनाख्यः

प्रथमोऽधिकार ।

मङ्गलाचरणम् ।

चातुर्व्यूहं परं ब्रह्म षाड्गुण्यपरिकर्मितम् ।
पञ्चरात्रस्य कृत्स्नस्य प्रसूति पर्युपास्महे ॥
अनन्यदेवतास्थायिन्यायतेमहि ते वयम् ।
पञ्चरात्रमहाम्भोधिपारदृश्वनि सज्जने ॥
आरोहन्त्वनवद्यतर्कपदवीसीमादृशा मादृशा
पक्षे कार्तयुगे निवेशितपदा[१] पक्षे पतद्भ्य परान् ।
सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशन-
क्रीडाकुण्डलिमौलिरत्नघृणिभिः सारात्रिकाः सूक्तयः ॥

  1. पदा--च, छ, पदान्--क, ख, ग