प्रायेण “घ” कोशस्य समकालिकतास्य अनुमीयते । “विस्तरेण चाह योगमन्ते
दक्ष । तत्र चैष सारः प्रोक्तः । सर्वोपाधि . . . ” इति [१] द्वितीयाधिकारान्तिमभागस्य किञ्चित् पूर्वं विद्यमानायाः वाक्यपङ्क्तेरनन्तरम् अस्मिन् ग्रन्थलोपः संजातः । अदसीयस्य पाठादिसौष्ठवस्यावलोकनेन अवशिष्टस्य एतदीयस्य नष्टाशस्यापि परामर्शे परमाकाङ्क्षा न समुत्पन्ना ।
१० “ झ “ संज्ञितः कोशः [२] श्रीपाञ्चरात्ररक्षायाः प्रथममुद्रितः एष
एवेति वयमेतावता जानीमः । वेळियनूर शङ्खपुरम् श्रीराघवाचार्येण, कोन्दमूर्
कोयिलिय्युण्णि श्रीराघवाचार्येण च शोधित , कुम्भकोणम् तट्टै श्रीकृष्णमाचार्यप्रार्थनया माडपूषि श्रीपार्थसारथ्याचार्येण विक्रमसंवत्सरे (कैस्तवेऽब्दे १८८०)
चैत्रमासे मद्रपुर्या व्यवहारतरङ्गिणीमुद्रालये मुद्रितः । षष्टयधिकवर्षदेशीयमिदमेव
पुस्तकं पूर्वनिर्दिष्टयोः ग्रन्थाक्षरमयपुस्तकयोः मुद्रणमूलम् आसीत् । एतन्मुद्रणे
कृतयत्नैः प्रथमतो यं कमप्युपलब्धं कोशमनुरुध्य विनैव विमर्शश्रमं वीतपरिशोधनोद्यम च ग्रन्थमुद्रणायारब्धमिति, अनन्तरं च पुस्तकान्तरप्राप्त्या स्वविहितेषु
मुद्रणेषु दोषबाहुल्यमवलोक्य पुटाष्टकपरिमितं शुद्धिपत्रमन्ततः संयोजितमिति च
संदृश्यते । अपभ्रंशबहुलस्यास्य कोशस्यान्ते योजितं शोधनपत्रमपि अन्यत् शोधन
पत्रमपेक्षते । “क' कोशः सर्वधा पन्थानमेतदीयमेवानुरुणद्धि, यत एष एव
तन्मुद्रणस्य मूलमभूत् । अत्रान्ततो विद्यमानानि शोधनपत्राण्यपि “क” कोशमुद्रापकैः नैव दृष्टानीति स्पष्टीभवति । तथापि श्रीपाञ्चरात्ररक्षायाः प्रथमतो
मुद्राक्षरारोपणोपनतां प्रतिष्ठां श्रीशाङ्कपुर राघवाचार्यप्रभृतय एवार्हन्ति ।
श्रीनिगमान्तगुरुभिः पाञ्चरात्ररक्षायाः सुबहुभ्यो ग्रन्थान्तरेभ्यः समुद्धृत्योदाहृतानां सर्वेषामपि प्रमाणवचनानां ग्रन्थस्यास्यावसाने काचन विस्तृता वर्णानुक्रमणिकास्ति संयोजिता, यत्र च प्रमाणभूतानां सर्वेषामपि श्लोकार्धानाम् अन्येषामपि प्रमाणवाक्यानाम् आदिमाः भागाः सन्ति समुद्धृत्य मुद्रिताः । एष चास्य परिष्कारायादृतेषु अभिनवेषु समुद्यमेष्वन्यतम ।