पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
भूमिका

 ६.' “ङ” संज्ञितः कोशः सुतरां पुरातनः मद्रपुरराजकीयपुस्तकभाण्डागारादुपलब्धस्तालपत्रलिखित | M 34-3 अङ्कचिह्नितः | पाठैर्भूयसा “घ” कोशासदृशः । शैथिल्यम् अधिजिगमिषूणाम् अदसीयाना - क्वचित् क्वचित् विलुप्तानां च- दलानां रीतिमवलोकितवद्भिरस्माभिः कोश एष “घ” संज्ञितादपि प्राचीनतरः स्यादिति आलोच्यते । आग्म्भे कोशस्यास्य कानिचन पत्राणि लुप्तानि, कानिचनान्ततश्च त्रुटितानि । अक्षराणि किञ्चिदिवास्पष्टानि । मुद्रापकान्तरैरदृष्टपूर्वं वयोवशात् विशिष्य शैथिल्यं प्रतीक्षमाणमिदं पुस्तकं दिष्ट्या समुचिते समये दृष्टमस्माभिः । साधुपाठाः समुद्धृताः अस्मादपि कोशात् ।

  “च” संज्ञितः [१] कोशो विशतिवत्सरेभ्यः पूर्वं १९१९ क्रैस्तवाब्दे तूप्पुल् श्रीवेङ्कटाचार्येण बेङ्गळूरनगरे आन्ध्राक्षरैर्मुद्रितः । ग्रन्थाक्षरैर्मुद्रितेभ्यः पूर्वनिर्दिष्टपुस्तकेभ्यस्त्रिभ्योऽपि पाठरीत्या मुद्रणशैल्या च कोशोऽयं कियानिव विशिष्यते । तत्र तत्र सन्दिग्धेषु बहुषु स्थलेषु सविमर्शमर्थनिर्वचनपूर्वक विषयपरिशोधनाय यद्यप्यस्य मुद्रापका श्रममावहन्निति न ज्ञायते, तथापि यावच्छक्ति आगमशास्त्रस्यास्य शोधनाय तैः प्रवृत्तमिति अवगम्यते । महीशूरपुरादेव राजकीयपुस्तकभाण्डागारात् अस्मत्परिशीलनार्थं ये हि नाम कोशा आनीताः तेष्वेकोऽपि पुस्तकस्यास्यान्ध्रस्य मुद्रापकाणां दृष्टिपथमुपयात इति प्रतिभाति, यतः सुबषु स्थलेषु तत्कोशस्थाः पाठाः मुद्रितस्यान्ध्रपुस्तकस्यास्य पाठेभ्यो विसंवदन्ति ।

 ८“छ” संज्ञितः कोशः सुस्पष्टैरक्षरैरन्वितो महीशूरपुरराजकीयपुस्तकभाण्डागारात् सपादितः तालपत्रमयः । २४९८ अङ्कचिह्नितः । समग्रः पाठैः अक्षरशुध्या च “घ” “ड” कोशौ भूयसा अनुवर्तते । केन कदा लिखितोऽयमिति न ज्ञायते । अद्यैवास्य घुणभक्षणमारब्धम् । “घ” “ड” कोशाभ्यामेतस्य लेखनकालः स्यादर्वाचीन इति प्रतिभाति ।

  “ज 'संज्ञितः कोशोऽयम् असमग्रः । महीशूरपुरराजकीयपुस्तकभाण्डागारात् उपलब्धस्तालपत्रलिखितः । ३०२८ अङ्कचिह्नितः । लेखनसमयलेखकनामादिकम् अस्यापि नोपलभ्यते । पुस्तकस्य स्वरूपम्, अत्र समुपनतानां घुणक्षतादिशैथिल्यादीनां रीतिम्, पाठक्रमादींश्च सम्यगभिवीक्षतवद्भिरस्माभिः

  1. एष कोशः श्रीमता तोट्टालं राजगोपालाचार्याणां सविधात् सपादितः ।