पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
भूमिका

अस्याम् अनुक्रमणिकायां तथोद्धृत्य सूचितानां प्रमाणवचनानाम् आकरकोशनामानि, कर्तृनामादीनि च तत्तद्व्यञ्जकैः सङ्केताक्षरैः सन्ति संदर्शितानि, येषां च (सङ्केताक्षराणां) विशेषविवरणम् अपरयोस्ततः पूर्वमायोजितयोः अनुक्रमणिकयोरस्त्याविष्कृतम् । पाठानां संदिग्धविषयाणां च विमृश्य शोधनार्थं यावान् परिश्रमः कालव्ययश्च समभूत् , किञ्चिदुच्चावचतया तावान् आकरग्रन्थानाम् अन्वेषणाय तत्तन्नाममग्रहाय चासीद्विनियोक्तव्यः । एवमादृत्य च सुदुर्भरं क्लेशम् , ग्रन्थान् कांश्चन– अभिगमनसारः , आचमननिर्णयः , कालविधानम्. कालोत्तरम्, भोजदेव-बलदेवाचार्यग्रन्थाः , सन्मार्गदीपिका, कृष्णकल्प , प्रयोगपद्धतिरत्नावली, श्रीकरसंहिता इत्यादीन्–नैवोपलब्धुमशक्नुम । आदौ आकरग्रन्थानाम् अन्वेषणे सत्युपक्रान्ते, सुबहूनां वचनानां मूलभूतग्रन्थानां तत्तद्ग्रन्थप्रकरणानां चाधिगमे महदेव विस्रम्भवैकल्यमजनि । इदमद्य महदस्माकं प्रमोदस्थानम्, यदुत बलवतोऽस्मदुद्यमस्य समुचितफलत्वेन प्रमाणवचनानाम् ऋतेऽतिपरिमितसङ्ख्याकेभ्यो वचनेभ्यः सर्वेषामितरेषामुपलब्धा आकरा इति । ते च प्रमाणवचनादीनां वर्णानुक्रमणिकाया सन्ति संयोजिताः । ग्रन्थेऽस्मिन् उदाहृतानां प्रमाणाकरसङ्खयानां मध्ये प्रतिशतकं पञ्चषा एवाकरा अभूवन् अनुपलब्धा इति च निर्देष्टुं शक्यते ।

 प्रपत्तिधर्माणां तत्त्वनिरूपणाय निक्षेपरक्षां प्रथमतः प्रणीय[१], ततश्च प्रपन्नजनैस्तदितरैश्च भागवतैः प्रत्यहमनुष्ठेयानां भगवत्कैङ्कर्यरूपधर्माणां निरूपकं पाञ्चरात्रशास्रं निःश्रेयसकाङ्क्षिणाम् अनुजिहीर्षया व्याख्यातवान् श्रीवेदान्तगुरुः, अनया रक्षया शास्रं च तद्रक्षितवान् । पाञ्चरात्रशास्त्रं परम-

  1. “प्रपञ्चितं चैतत् पूर्वस्मिन्नधिकारे निक्षेपरक्षादिषु च ” इति ग्रन्थेऽस्मिन् तृतीयाधिकारस्यारम्भे दृश्यते । अतो निक्षेपरक्षाया अनन्तरं श्रीपाचरात्ररक्षा प्रणीतेति सम्यक् ज्ञायते । (दृश्यतां ८१ पुट)