पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
भूमिका

पौष्कर-जयाख्यमहितानां विवरणरूपतया क्रमेण तत्तत्संहितामार्गावलम्बिनो महान्त ईश्वर-पारमेश्वर-पाद्माख्यास्तिस्रः पृथक् संहिता प्रणिन्युरिति साम्प्रदायिका अभिप्रयन्ति । अथ नैष्ठिकानां परमैकान्तिनां नित्यानुष्ठानविधिनिर्णायकत्वेन भगवतो भाष्यकारस्य नित्यग्रन्थविवरणद्वारा तस्याव्यवहितशिष्यस्य वङ्गिवशेश्वरस्य भूयस्य कारिका , तथा नजीयरिति नामान्तरेण प्रथितस्य नारायणमुनेः पञ्चकालकल्पनाविधायिकाः कारिकाश्च ग्रन्थेऽस्मिन् सन्ति भूरिश उदाहृताः[१]

 नारायणैकपरायणैः परमादरणीयं पाञ्चरात्रशास्त्रमिदम् इति साम्प्रदायिकानामाशयः । पाञ्चकालिककृत्यैः परमपुरुषमेव ये सन्ततमुपासते त एव परमैकान्तिनः । परमैकान्तिशब्दस्यार्थविवरणावसरेऽस्य ग्रन्थस्य तृतीयाधिकारे निगमान्तगुरुभिः परमैकान्तिशब्दस्य निर्वचनमेवमेवास्ति विहितम् [२]। अनन्यदेवताकत्वमेव परमैकान्तिनां परमा निष्ठा । "चतुर्विधा मम जना भक्ता एव हि ते श्रुताः । तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः " इति खलु महाभारतमावेदयति ।

"कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।"
"अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।"
"जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥"
"तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
 मय्यर्पितमनोबुद्धि मामेवैष्यस्यसंशय. ॥"

  1. श्रीवत्साङ्कमिश्रस्य अभिगमनसार, श्रीभट्टपराशरस्य नित्यग्रन्थ वङ्गिवशेश्वरस्य कारिका, नारायणमुने नित्यार्चनकल्प इत्येतेषां ग्रन्थानां विशिष्य वङ्गिवशेश्वरकारिकाग्रन्थस्य च कृतमुपबृहणम् । [वङ्गिवशेश्वर श्रीरङ्गनारायणाचार्याख्यया च व्यपदिष्ट श्रीभाष्यकाराणाम् अव्यवहितशिष्य पञ्चकालप्रक्रियया नित्यकर्मसंग्राहक प्रधान पुरुष ।] ।
  2. दृश्यतां श्रीपाश्चरात्ररक्षायाः १३९ पुट ।