पुरुष[१] स्वय समपद्यत इति च ष्रेडरमहाशय कथमप्यभिप्रैति [२] । कालपञ्चकस्य च, पञ्चसु कालेषु द्वितीयाधिकारे प्रतिपादितेषु निर्वर्तनीयस्य नित्यकृत्यपञ्चकम्य च निर्णयपर शास्रमेव पाञ्चरात्रशब्दप्रतिपाद्यमिति निगमान्तगुरुभिरेव प्रथमाधिकारस्य निगमनावसरे निर्णीतमस्ति । यथा---
पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता ।
श्रीपाञ्चरात्रसिद्धान्तव्यवस्थेय समर्थिता ॥' इति ।
पञ्चरात्रशास्त्रस्य वेदस्येव सर्वविद्याभ्योऽपि सर्वधा चिरन्तनत्वं तच्छास्त्रप्रतिपत्तिमद्भि सभाव्यते । आधुनिकां चारित्रतत्त्वविमर्शनपरा विद्वासश्च शास्त्रमिद क्रिस्तुजन्मत प्राय शताब्दाना चतुष्टय्या पूर्वमेव बहुभिर्ज्ञातमिति, तत्सम्प्रदायश्च वासुदेवपरायणैस्तत्र तत्र प्रवर्तित इति च सहेतुकमुपपादयन्ति । क्रिस्तुत प्राक् चतुर्थ्या शताब्द्या स्थितवता पाणिनिना भगवान् वासुदेव “ वासुदेवार्जुनाभ्या वुन्' इति सूत्रेण सूचित इति, तत्समयेऽपि वासुदेवाराधकाना सद्भावस्य तदेतत् ज्ञापकमिति स च वासुदेवशब्द. चतुर्षु व्यूहेष्वन्यतमं भगवन्तमेव निर्दिशति न वसुदेवसुत श्रीकृष्णमिति, वुन्प्रत्ययविधानवैयर्थ्य परिजिहीर्षतो भगवत्सज्ञेयमिति प्रतिपादितवतः पतञ्जले महाभाष्यवाक्य प्रमाणमस्येति च स्वसिद्धान्तस्य ते ह्युपकल्पयन्ति हेतून् । “तद्धि वासुदेवाख्य परं ब्रह्म' इति यत् श्रीभाष्ये (२-२-४१) अभिहितं तदपि नूनमेतद्वासुदेवपरमिति निरूपयति वचनम् । शतपथब्राह्मणे, ऐतरेयब्राह्मणे च सात्त्वतविषयस्य (पञ्चरात्रपरायणाना
निर्देशकासु संज्ञास्वन्यतमस्य) प्रयोगोपलम्भात्, पाञ्चरात्रशास्त्रस्यातिचिरन्त-