पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

पञ्चरात्रार्थवित् तथा । विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम्" इति जयाख्यवचनं तदिदम् असदिति विशदयति । यद्यभिगमनादिपञ्चकर्मणाम् अनुष्ठानाय विहितान् पञ्च कालानेव निर्दिशेत् पञ्चरात्रमिति संज्ञा, तर्हि पञ्च कालरत इति, पञ्चरात्रार्थवित् इति पञ्चकाल-पञ्चरात्रशब्दयोर्विभिन्नः प्रयोगो नैव समञ्जसः स्यात्, यतस्तद्वचनमेव तयोः शब्दयोर्विभिन्नार्थत्वं व्यनक्ति । किश्च विधिनियमितानि विविधभगवत्कैङ्कर्याणि अनुरुध्यैव दिनमेकं पञ्चधा विभक्तम्, न तु कालस्यान्यधा पृथग्विभागस्यास्त्यवकाश इति स एव ग्रन्थः साधु निर्धारयत्यपरत्र । यथा–" एकस्यैव हि कालस्य वासरीयस्य नारद । आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना । पृथक् कर्मवशात् कार्या न कालाः बहवः स्मृताः " (जयाख्य० २२-२५, २६) इति । अतो हेतोः पञ्चापि वासरीयाः विभागाः , कालेषु तेषु वैधत्वेन प्राप्ताः पञ्च धर्मा वा पञ्चरात्रशब्दस्याकिञ्चित्करा निर्वचनविषय इति निश्चिनुम । साङ्ख्य-योग वैशेषिक-न्याय-मीमासाख्यानि पञ्च इतराणि शास्त्राणि यत्र रात्रीयन्ते (अदृश्यानि भवन्ति) इति या व्युत्पत्तिः पाञ्चरात्रशब्दस्य पाद्मानुसारेण प्रकल्प्यते सापि क्लिष्टकल्पनेति, न ह्यार्या आर्जवावलम्बिनस्ताम् अभिनन्देयुरिति चाभिप्रयन्ति केचन विचक्षणाः विमर्शकाः । परञ्च-पूर्वनिर्दिष्टस्य शतपथब्राह्मणमन्त्रस्य पूर्वतन एषः "पुरुषो ह नारायणोऽकामयत्' इति मन्त्र पुरुषसूक्ते नारायणोपनिषदि च प्रतिपादितस्य नारायणस्य स्वरूपमेव निरूपयतीति, स्वात्मनैव तेनाविर्भावितानां पर-व्यूह विभवान्तर्याम्यर्चाख्यानां पञ्चानां मूर्तीनां स्वरूपनिरूपकपरं भगवच्छास्त्राख्यं पाञ्चरात्रशास्त्रं स एव

प्रणीतवानिति,[१] शतपथब्राह्मणोक्तरीत्या स एव यज्ञरूपधरः, पाञ्चरात्रसत्र-

  1.   सदागममयात् तस्मात् केवलाद्दिव्यशासनात् ।
      निर्ममे सारमुद्धृत्य स्वयं विष्णुरसङ्कुलम् ॥
      तत्परव्यूहविभवस्वभावादिनिरूपणम् ।
      पाञ्चरात्राह्वय तन्त्रं मोक्षैकफललक्षणम् ॥ (अहिर्बु ११-६२, ६३).

      B