पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

. अध्यापयामास यतस्ततस्तान् मुनिपुङ्गवान् ।
शास्त्र सर्वजनैर्लोके पञ्चरात्रमितीर्यते ॥ (ईश्वर० स० २१)

(३) पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि ।
तत्सन्निधौ समाख्याऽसौ तेन लोके प्रवर्तते । (पाद्म स० ज्ञान १)

(४) तत्परव्यूहविभवस्वभावादिनिरूपणम्।
पाञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् ॥ (अहिर्बुध्न्य म० ११)

 रात्रम् अथवा रात्रिरिति शब्दस्य ज्ञानार्थं एवमुपकल्प्यते नारदपञ्चरात्रे– “ रात्रं च ज्ञानवचन ज्ञान पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं हि प्रवदन्ति मनीषिण " इति । इदं तत्र प्रथमरात्राख्येऽध्याये प्रतिपादितं वचनम् । पञ्चविधानि रात्राणि ज्ञानानि यस्मिन्निति नारदपाञ्चरात्रीया पञ्चरात्रव्युत्पत्तिरियम् आदावुदाहृतं विष्णुसंहितावचनोपपादितं निर्वचनं निकाममवष्टम्भयति। पञ्चायुधानाम् अंशत्वेन परिगण्यमानेभ्यः पञ्चभ्यः शाण्डिल्यादिमुनिपुङ्गवेभ्यः पञ्चभिरहोरात्रै परमेण पुंसा नन्वस्य प्रागध्यापितत्वात् 'पञ्चरात्रम्' इति नाम्ना सर्वत्र शास्त्रमिदं प्रथितमिति नवीनाः श्रीएम्बार्प्रभृतयः पण्डिताः अभिप्रयन्ति । अतिप्राचीनत्वेनावगम्यमानेषु पाञ्चरात्रसंहिताग्रन्थेषु अन्यतमेन अहिर्बुध्न्यसंहिताग्रन्थेन यदुपपादितं तत्परव्यूहेतिवचनेन पञ्चरात्रशब्दस्य

निर्वचनं तदेव सुतरां साधीय इत्याधुनिकप्रणाल्या विचारणपरस्य श्रीभट्टाचार्यादिविमर्शकवर्गस्य भवत्याशयः । [१]अभिगमनम्, उपादानम्, इज्या, स्वाध्यायः, योग इति पञ्चानां भगवत्कैङ्कर्यरूपाणां कर्मणा प्रत्यहमनुष्ठानार्थं प्रतिनियताः पञ्च कालाः शास्त्रेऽस्मिन् यत्र सन्ति सविभक्ताः , तत्र इदं नामेति नातिविचारितविषयतत्त्वा केचित् कथयन्ति । "पञ्चकालरतश्चैव

  1. दृश्यता बरोडाराजकीयैर्मुद्रिताया जयाख्यसहिताया उपोद्धात ।