पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

"विदितनिगमसीम्ना वेङ्कटेशेन तत्त
 द्बहुसमयसमक्षं बद्धजैत्रध्वजेन ।
प्रतिपदमवधानं पुष्यता सात्त्वताना
  परिषदि विहितेय पञ्चकालस्य रक्षा ॥ "

इति पद्येन विशदयति श्रीमान् वेङ्कटनाथ [१] । भगवद्रामानुजमुनिभि अनुगृहीतस्य नित्यग्रन्थस्य निश्शेषतो विवरणम्, तत्रानाविष्कृताना श्रीभाष्यकार-तच्छिष्यवर्गाणाम् अभिमतत्वेन निगमान्तार्येण निर्णीतानां च पाञ्चकालिककृत्याना [२] प्रपुञ्चन च ग्रन्थस्यास्यापरो निबन्धनोद्देश इति च निश्चीयते । अस्य ग्रन्थस्यावतरणे हेत्वन्तराणि चाग्रतो दृश्यन्ताम् ।

 एतदागमावलम्बिन पण्डिताः पाञ्चरात्रशब्दस्य नैकविधानि निर्वचनानि निर्दिशन्ति । तत्र चेमानि कानिचन प्रधानानि प्रमाणवचनानि---

(१) रात्रयोः गोचराः पञ्च शब्दादिविषयात्मिकाः ।
महाभूतात्मकाः वात्र पञ्चरात्रमिदं तत ॥
अवाप्य तु परं तेजो यत्रैता पञ्च रात्रयः ।
नश्यन्ति पञ्चरात्र तत् सर्वाज्ञानविनाशनम् ॥ (विष्णुसंहिता)

(२) पञ्चायुधाशास्ते पञ्च शाण्डिल्यश्चौपगायन ।
मौञ्ज्यायन कौशिकश्च भारद्वाजश्च योगिनः ॥
पञ्चापि पृथगेकैकं दिवारात्रं जगत्प्रभु ।

  1. स्वपक्षात् परपक्षादपि सर्वधर्मनिरासकरूपापाय समुपनत इति, तदपायात् पञ्चरात्रशास्त्रस्य रक्षणमावश्यकमासीदिति च ग्रन्थस्य नामान्ते योजितो रक्षाशब्दः सम्यगावेदयति ।
  2. दृश्यन्ता ५२ पुटे “ तथाहि-भाष्यकाराव्यवहितशिष्यैः वगिवशेश्वरैः * * * " इत्यादीनि वाक्यानि । आगम-मन्त्र-तन्त्र-तन्त्रान्तराभिधेषु चतुर्षु सिद्धान्तेषु मन्त्रसिद्धान्तमवलम्ब्य नित्यग्रन्थ प्रणिनाय भगवान् भाष्यकारः ।