पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

चोपदेष्टा च श्रीमन्नारायण एवेति नैकधा लिखितपठितमेव प्राक्तनै परमर्षिभि परमाचार्यैश्चेदं वस्तुतत्त्वम् । भगवता प्रणीतमिति भगवत्सेवाप्रकारप्रतिपादकमिति च हेतुद्वयेन पाञ्चरात्रमिदं भगवच्छास्रमिति नाम्ना च तदभिज्ञैरभिधीयते[१] । एतादृशशास्रपथेषु अक्षुण्णमतिभिरपि श्रीवैष्णवै सामान्यत स्तोत्रपाठप्रसङ्गेन यतिराजसप्ततिप्रभृतिषु स्तोत्रजालेषु परिशील्यमानेषु “ प्रवक्ता छन्दसा वक्ता पञ्चरात्रस्य य स्वयम्' इत्यादिभि. प्रयोगे पञ्चरात्रमिति श्रतिसदृशं सात्वतजनानाम् असदृशं शास्त्रं किमपि विद्यत इति, तस्य च भगवान् आदिमो गुरु श्रिय पतिरेव स्वयं रचयितेति च शक्यमवगन्तुम् ।[२]

 किन्तु नेदमुपलभ्यमानैर्विषयाशै सुशक सुव्यक्तं निर्णेतुम्, यदुत सम्प्रदाय एष कदा वा प्रवृत्तिमुपलेभ इति, देशस्यास्य कतमस्मिन् वा भाग प्रथमप्रचारश्चास्य प्राक् समुपनत इति च । भगवता नारायणेन भक्त्युपनताय नारदाय प्रथमत शास्त्रमिद समभवदुपदिष्टमिति, तस्माच्च

महर्षिपरम्परया महीतले तदिदमुपदेशद्वारा प्रचारमध्यगच्छदिति च पारम्परिकैतिहासिकविषयविश्वस्तै साम्प्रदायिकैर्विभाव्यते । तदेतस्य चावष्टम्भनाय

  1. "प्राप्यस्य ब्रह्मणो रूप प्राप्तुश्च प्रत्यगात्मन ।
    प्राप्युपाय फल प्राप्तेस्तथा प्राप्तिविरोधि च ।
    वदन्ति सकला वेदा सेतिहासपुराणका ॥

    इत्यर्थपञ्चकविवरणरूप परमपुरुषार्थसाधक सात्विक शास्त्र भगवान् वासुदेव स्वय प्रणीतवानिति भगवता प्रोक्तत्वात् भगवच्छास्त्रमिति यदिदमस्माभिरुच्यते तदेतत् श्रीरहस्यत्रयसारे अर्थ पञ्चकाधिकारे श्रीनिगमान्तगुरुप्रतिपादितप्रमाणमूलकमिति च ज्ञातव्यम् । किञ्च तत्रैव इति च भगवच्छास्त्रत्वमस्य निदिष्टम् ।

  2. “वेदान्तेषु यथासार सगृह्य भगवान् हरि ” इति, "सर्ववेदान्तसारोद्धारेण सर्व जनहितैषिणा भगवता स्वयमेव प्रणीत श्रीमत्पाञ्चरात्रशास्र" इति च शास्रस्यास्य भगवत्प्र णीतत्व वेदान्तसारमयत्व च निगमान्तगुरुणैव निरूपितमास्ते । (दृश्यता पुट २३ ).