पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

सविधान वा तै प्रकाशकै किञ्चिदपि नैवासीत् आदृत परिश्रम इति । अतस्तदिदमखिल समालोचितवद्भिरस्माभि कोशस्यैवंरीतिकस्यास्य मुद्रणे चाविष्करणे चायमङ्गीकृत समुद्यम ।

 श्रीपाञ्चरात्ररक्षाया अभ्याभिनवमुद्रणकर्मण उपक्रमात् पूर्वं विभिन्नेषु कालेषु विभिन्नैर्व्यक्तिभिर्विलिखिताना विविधाना चिरन्तनाना मातृकाकोशानाम् उपद्वादशाना पठनपरामर्शद्वारा लेखकप्रमादजनितदोषपरिहाराय, पाठभेदाना परिशीलनपुरस्सरं सयोजनाय, सस्कारान्तराणा विविधाना साधु निर्वहणाय च यथाशक्त्यस्माभिरादृत परिश्रमः । अस्माभिरेव संस्करणायोप युक्तेषु पुरातनेषु कोशेषु ख सज्ञितं कोश एवान्ततस्तल्लेखनकाल सम्यगस्ति विलिखित[१] । श्रीपाञ्चरात्ररक्षाया मुद्रणोद्यतेन केनचित्, अन्येन वा परिशीलकेन अस्मदुपलब्धेषु कोशेषु अतीव प्राचीनौ घ ड सज्ञितौ कोशौ द्वावपि न ह्येतावता स्याता पठितचराविति वक्तमुपपद्यते, यतस्तयोर्दृश्यमाना सुबहवो विवेचकैरादरणीया पाठक्रमादयो न हि मुद्रितचरेषु कोशेषु क्वचिदप्युपलभ्यन्ते । अस्माभि घ सज्ञितस्य कोशस्य पाठरीतिरेव कोशान्तरीयपाठेभ्योऽपि प्रशस्तेति समालोच्य सैवास्य ग्रन्थस्य नवीनमुद्रणे विश्वसनीयत्वेन बहुषु स्थलेष्वङ्ग्यकारि ।

 अथास्य ग्रन्थविषयस्य किञ्चिदिव परामर्शाय प्रयतामहे । किमिद पाञ्चरात्रशास्र नाम ? कुत इदं प्रवृत्तम् ? क एतस्य कर्ता प्रवर्तको वा ? इति बहव. पृच्छन्ति । पञ्चकालपरायणा पावनचरिता भागवता पाञ्च रात्रशास्रप्रतिपादितान् विधीन् अनुरुध्यैव वैदिकानि वैष्णवसम्प्रदायमूलभूतानि नित्यकृत्यानि निर्वर्तयन्तीति नूनमिद न बहूना विदितम् । अत

किञ्चिद्विवरणमपेक्षते विषयोऽयम् । पाञ्चरात्राह्वयस्य शास्रस्य प्रथमरचयिता

  1. दृश्यताम् अनन्तर भूमिकाया विषयस्यैतस्य विवरणम् ।