पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका

"इद महोपनिषद चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ।
नारायणमुखोद्गीर्ण नारदोऽश्रावयत् पुरा ।"

इत्येतन्महाभारतवचनमपि (शान्तिपर्व ३४८-६२,६३) प्रमाणयन्ति प्राञ्चो विदितवेदितव्या श्रीवैष्णवाचार्या । पञ्चरात्रशास्त्रस्य भगवच्छास्रमिति पूर्वम् अन्यदपि नाम व्यवहारे विद्यत इति निर्दिष्टम्[१] । तथा भगवदुपदिष्टमिद शास्त्रं 'सात्त्वतशास्रम्' इति सज्ञान्तरमप्यावहति । तस्यैतस्य संज्ञान्तरस्य ईश्वरसहितादिषु प्रयोग परिदृश्यते[२] । अत एव च शास्त्रमिदमवलम्ब्य ये धर्मान् अनुतिष्ठन्ति ते पाञ्चरात्रिका इति, भागवता इति, सात्त्वता इति च साम्प्रदायिकैरभिधीयन्ते । पाञ्चरात्रिकेण विधिना ये वासुदेवमाराधयन्ति ते वासुदेवनाम्ना, एकान्तिकनाम्ना (परमैकान्तिन), सूरिनाम्ना च सद्भिराहूयन्ते[३]

 इदमप्यभिधीयते, यत् पाञ्चरात्रमिद श्रुतिमूलकमिति, विशिष्य चैकायनश्रुत्युपबृह्मकमिति च । एकायनमिति नामेदं छान्दोग्योपनिषदि "ऋग्वेदं भगवोऽप्येमि यजुर्वेद सामवेदमथर्वणवेद चतुर्थम्, इतिहासपुराण पञ्चम वेदाना वेद पित्र्य राशिं दैव निधि वाको वाक्यम् एका

यनम् " इति (६, १-२, ६, १-४) दृश्यते निर्दिष्टम् ।

  1.  "भगवच्छास्त्रस्य सार्वभौम प्रामाण्य" इत्यादिभि बहुषु स्थलेषु भगवच्छास्त्रमि त्येव शास्त्रमिद निगमान्तगुरुणा निर्दिश्यते ।
  2. “एतेषा सात्त्वत शास्त्रमुपदेष्टु त्वमर्हसि ।
    इत्युक्त्वान्तर्दधे श्रीमान् नारायणमुनिस्तदा ।
    सात्त्वत विधिमास्थाय गीत सङ्कर्षणेन य । ” (ईश्वर 1-10)

  3. "वासुदेवाश्च सात्त्वतै । (श्रीविष्णुपुराणे ५-१६, १७)
    "सूरि सुहृद्भागवत सात्वत पञ्चकालवित् ।
    एकान्तिकस्तन्मयश्च पाञ्चरात्रिक इत्यपि' । (पाद्मसहिता ४-२, ८८)