प्रत्येकं सम्पूर्णसमाराधनमित्यर्थः । अतो यथाधिकार यथाशक्यमत्र श्रद्दधानैः
पूर्णानुष्ठातु समा-
हृत्यानुष्ठाश्च तुल्य-
फलत्वम्
दयाहृदयदेशिकोपदेशपूर्वकमनुप्रविश्य देश-काल-दशाद्यानुगुण्येनाच्छिद्रम् , यथाक्रमं समाहृत्य वानुतिष्ठद्भिरनन्यप्रयोजनै परमैकान्तिभि अनवधिकपरमपुरुषचरणपरिचरणरूपम्[१] अपवगैश्वर्य यथारोग्यं यथायोग्यं चात्रैव भोक्तव्यमिति
सिद्धम् ।
ग्रन्थोपसंहार ।
सव्य पाद प्रसार्य श्रितदुरितहर दक्षिण कुञ्चयित्वा
जानुन्याधाय सव्येतरभुजमपर[२] नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने[३] धारयन् शखचक्रे
देवीभूषादिजुष्टो जनयतु[४] जगतां शर्म वैकुण्ठनाथ[५] ॥
|
विदितनिगमसीम्ना वेङ्कटेशेन तत्त-
द्बहुसमयसमक्षं बद्धजैत्रध्वजेन ।
प्रतिपदमवधानं पुष्यतां सात्त्वताना[६]
परिषदि विहितेय पञ्चकालस्य रक्षा ।
|
- ↑ परिचर्यारूपम्-क, ख, ग, च,झ
- ↑ सव्येतरमितरभुज-क, ख, ग, च, झ , सव्येतरभुजमितर-ड, छ
- ↑ प्रतिभयशमने-घ
- ↑ वितरतु-ड, छ
- ↑ देवीभूषादिजुष्टो नवजलदनिभः पातु दिव्यं परो नः ---इत्यस्मिन्नेत्र ग्रन्थे उपादानविषयस्यावसाने दृश्यमान. पाठ (१३७ पुटे)
- ↑ सात्त्विकाना—क, ड, च, छ, झ