पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
तृतीयोऽधिकार

कण्डूला [१]कलिकज्जलाविलधिय केचिज्जडा निष्फल
विक्रोशन्तु वियच्चरैः सह बलिव्यत्यासवित्रासिभिः ।
मोघाशापि तथाविधेप्ववितथेप्वार्येष्वमोघा[२] भृश
मुक्तैश्चर्यमहाफलोद्गमधिया चर्येयमाचर्यताम् ॥

त्यक्तं शास्त्रमलेपकप्रभृतिभिः किः तेन तस्यागत
प्रद्विष्ट जगदेकचक्षुषि दिवाभीतैस्ततस्तस्य किम् ।
दुग्धं पित्तहतैर्जुगुप्सित[३]मतस्तस्यापि किं दुर्जनै
स्त्यक्तः चेदपि मत्कृतं सुरुचिरं किं देशिकैस्त्यज्यते ।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायाः
नित्यव्याख्यानाख्य

तृतीयोऽधिकार ।

॥ श्रीपाश्चरात्ररक्षा संपूर्णा ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥


  1. किल कञ्जल- च
  2. आर्तेष्वमोघा-क, च, झ , मोघाशापि इत्यनन्तर ग्रन्थशेष प्रायेण घ कोशे
    त्रुटित । ड, छ कोशयोस्तु पड़क्तिलोपसूचकानि चिह्नानि अत्र दृश्यन्ते ।
  3. जुगुप्पित इत्यनन्तर ड, छ कोशयो पङ्क्तिलोपो दृश्यते, ततश्च “मस्तु सति
    कि तद्देशिकैस्त्यज्यते” इति विषम कोऽपि पाठभेदश्च विद्यते ।