पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७८
श्रीपाञ्चरात्ररक्षा

नेह कालक्रियाकर्तृद्रव्यदिग्देशसश्रिता[१]
एषितारः तदिच्छा वा विहायास्ति नियन्त्रणा ।
निषेधाविषयीभावादृते नैवापरो गुण ॥
प्रीतिहेतु परेशस्य स्वार्चनाङ्गेषु वस्तुषु ।
अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् ॥
प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना ।
अहो हरि ब्रुवन्नेव मुक्तिमेत्यप्यहो अहो ।
अहो अहो सुलभता कृपा चेयमहो अहो ।
अस्त्येव निर्मल तोयमयत्नसुलभं भुवि ॥
दृश्यन्ते च शुभा दूर्वा सुलभाः सर्वदिक्ष्वपि ।
अस्ति जिह्वा [२]हरि स्तोतुमात्मीयैवास्यमध्यगा ।
स्वकरावपि कर्मीणौ ध्यातुमस्त्येव मानसम् ।
अतो न हानिर्मन्त्राणा [३]यागविघ्नकरी हरे ॥
सामग्र्येषा हि सम्पूर्णा [४]पत्राद्येकैकमेव तु ।
अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रायश्चित्त क्षमस्वेति प्रार्थनैकैव केवलम् ।
सत्यसकल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके ।
नित्यनिर्दोषनिःसीममहाविभव[५]योगिनि ।
स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि ॥

  1. संस्थिता-क, ख, ग, झ.
  2. हरि वक्तु-ङ, छ.
  3. योग-ङ, च, छ
  4. वक्त्रादि-मुद्रितकारिकापाठ
  5. महामहिम-ड, छ