पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
श्रीपाञ्चरात्ररक्षा

इत्यादि तदेतत् सर्वं राज-राष्ट्रादिसमृ[१]द्धयर्थकाम्याराधनेषु अन्येष्वपि पूर्णानुष्ठानशक्तस्य संपूर्णद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ च[२] दोषमाह । न तु नित्ये कर्मणि[३] निष्कामस्य यथाशक्तिकरणे । स्मरन्ति च मन्वादय--

"वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
तद्धि कुर्वन् यथाशक्तिः प्राप्नोति परमा गतिम्" ॥ इत्यादि ।

अस्ति चान्यो भगवद्धर्मस्य विशेष , यमधिकृत्याय सात्त्वतसंग्रह -

" सकृत् य त्र्यह च सप्ताहं पक्ष मासमथापि वा ।
यो यजेद्विधिनानेन भक्तिश्रद्धासमन्वितः ॥
सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र संस्थितः[४]" ।
यावज्जीवावधि कालं बद्धकक्षो महामतिः" ॥ इति ।

एतदेव संक्षिप्तं नारायणमुनिभिः-

" दिनमेकमपि प्रीतो यः कुर्यान्मतिमान्नर ।
सुकृती किं पुनर्यावज्जीवमेव समाचरेत् " ॥ इति ।

उक्तं चाहिर्बुध्न्येन--

" समाराधयतस्त्वेवमेकाहमपि नारद ।
मुक्तिः करे स्थिता[५] तस्य सर्वे कामाश्च कि पुनः" ॥ इति ।

  1. समृद्धयर्थ---क, ख, ग, च, झ
  2. प्रवृत्तौ च क, ख, ग, च, छ
  3. नित्यकर्मणि-क, च, झ
  4. योगसंस्थित -क, ख, झ
  5. करस्थिता-क, ख, ग, च, झ