पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७५
तृतीयोऽधिकारः

तुलसीपद्मपालाशसुवर्णकुसुमैः शुभैः ।।
पूजयित्वा जगन्नाथं फलमानन्त्यमश्नुते ।।
गन्धैः पुष्पैः फलैर्मूले पत्रैर्वारिभिरेव[१] वा ।
नित्यः भगवत पूजा यथासम्भवमाचरेत् ॥
समस्तलोकनाथम्य देवदेवस्य शार्ङ्गिण ।
साक्षाद्भगवतो विष्णो पूजनं जन्मन फलम्" इति ।

एतेन भगवत्पूजनम्य नित्यत्वं सुकरत्व स्वयप्रयोजनत्वं च व्यक्तमुक्तम् ।

 यत्पुनरिदं विकलसमाराधनादौ प्रत्यवायादिकमुच्यते--

नित्यार्चने वैकल्येऽपि
दोषाभाव ।

"सर्पं दृष्ट्वा यथा कायः[२] कम्पते च मुहुर्मुहु ।
अमन्त्रमर्चकं दृष्ट्वा तथा भीतो[३] जनार्दनः ॥
गन्धहीने भयोत्पत्ति पुष्पहीने तु सकुलम् ।
नैवेद्यहीने[४] दुर्भिक्षं मरणं मन्त्रहीनके ॥
अमन्त्रमविधिं चैवमकालं चैव पूजनम् ।
नित्यं राष्ट्रभयं कुर्यात् तद्नाम[५] तु विनश्यति ॥
अमन्त्रेणैव यत्पूज्यं पिशाचासुरवर्धनम् ।
व्याधितस्करदोषौ च अनावृष्टिर्महद्भयम्" ।

  1. फले पत्रैर्धूपैर्वारिभिः –क, च, झ
  2. दृष्ट्वा नर काय-ख, ग, ड, छ , दृष्ट्वा महाकाय-घ, दृष्ट्वा यथा कायी--च
  3. महाभीत -घ
  4. निवेद्यहीने-ख, ग, घ, ङ, छ
  5. ग्रामस्तु इति चेत् साधु