पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
श्रीपाञ्चरात्ररक्षा

" एकोऽपि कृष्णे सुकृतप्रणामो दशाश्वमेधावभृथेन तुल्य ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय" ॥
" उपोषित पोषितो वा दुष्टो वा[१] प्रणतोऽपि वा ।
प्रसह्य हरते पाप को न सेवेद्धरि तत" ॥
" को हि भारो[२] हरेर्नाम्नि जिह्वाया[३] परिकीर्तने"।
" आयास स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरता तमहर्निशम् " ॥
" किं त्वया नार्चितो देव केशवः क्लेशनाशनः ।
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः " ॥
" अन्यत्पूर्णादपा कुम्भादन्यत्पादावने जनात् ।
अन्यत्कुशलसप्रश्नान्न चेच्छति जनार्दन " ॥
“ पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।
भक्त्येकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः " ॥
" पत्र पुष्प फलं तोय यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः " ॥
" अण्वप्युपहृतं भक्तैर्मम तोषाय[४] कल्पते " ॥ इत्यादि ।

उक्तं च नारदीये श्रीमदष्टाक्षरब्रह्मविद्याया षोडशोपचारोक्त्यनन्तरम्---

" एवमष्टाक्षरेणैव सर्वत्रार्चनकर्मणि ।
उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा ॥

  1. दृष्टो वा इति छ कोशादन्यत्र पाठ
  2. कोऽतिभार - क, ख, ग, ड, च, छ, झ
  3. जिह्वया—क, ख, झ
  4. मम भोगाय-ख, ग, घ