पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
तृतीयोऽधिकार

"न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः " ॥

" नित्य विष्ण्वर्चन परम्' इत्यादिभिः सर्वोत्तरत्वेन च[१] नित्यत्वेन च श्रुतेऽस्मिन् धर्मे अष्टवर्षस्य ब्रह्मचर्यधर्म इव यथाकथंचिदनुप्रवेशस्यापि[२] युक्तत्वात्,

"स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते" ॥

इत्यादिन्यायेन[३] भगवतैवाश्रितवत्सलेन शेषपूरणात् । स्मरिन्त च--

" सकृदुच्चरित[४] येन हरिरित्यक्षरद्वयम् ।
बद्ध परिकरस्तेन मोक्षाय गमनं प्रति" ।।
" साङ्केत्य पारिहास्य वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघविनाशनम्" ॥
" सकृत् स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानल" ।।
"हरिर्हरति पापानि दुष्टचितैरपि स्मृत ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावक " ॥
"दुर्गसंसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः" ॥

  1. च शब्द क, ख, ग, च, झ कोशेषु नास्ति
  2. अपि शब्द क, ख, ग, च, झ कोशेषु नास्ति
  3. इति न्यायेन-क, ख, च, झ
  4. सकृदुच्चारित- घ, ड, छ.