तेषामपि पौष्करादिषु आशौचमनुमतम् । यत्तु तत्रत्यसंस्कारविशेषवत कस्यचित् आशौचकालेऽपि मानसयागमात्रमनुमन्यते तत् गायत्रीस्मरणपूर्वकजलाञ्जलिप्रक्षेपन्यायेन नेतव्यम् । विष्ण्वर्चनमपि हि[१] प्रत्यक्षश्रुतिसिद्धनित्यं चेति प्रागेवोक्तम् । मानसयागमात्राभ्यनुज्ञानेन[२] शेषनिषेधश्च तत्रापि सिद्ध इति ।
तदेव स्वत प्राप्तिमपवादप्रकाराश्च[३] यथावदधिगम्याय धर्मोऽनुष्ठेयः ।
धर्मानुष्ठानप्रकारस्य
दुरूहत्वम् ।
" एकं यदि भवेच्छास्त्रं ज्ञान निस्सशयं भवेत् । |
इत्यादिभिर्याथार्थेन अतिवितत-गहन-गम्भीर-विविध-विकल्पबहुतरशास्त्रसक्षोभजनितदिड्मोहशान्तये सर्वै सङ्कलनमात्र[४] त्विह कृतम् । अनेनैव प्रस्थानेन प्रशमितदिड्मोहै समर्थैः आप्रभातादनुष्ठेयानि सर्वाणि कर्माणि प्रत्येक बहुतरेतिकर्तव्यतामुख्यानुकल्पविकल्पापवादादिविधायकतत्तच्छास्त्रेषु यथा
वदधिगम्यानुष्ठेयानि ।
भगवत्पूजनस्य नित्य
त्वसुकरत्वादिकम्।
हन्त तर्हि दुर्ज्ञाने दुष्करेऽस्मिन् प्रस्थाने को नाम [५]अद्याधिकारी स्यादिति चेत् ,
मैवं भेतव्यम् ।
- ↑ हि शब्द क, च, झ कोशेषु नास्ति
- ↑ मात्रानुज्ञानेन--क, च, झ
- ↑ स्वत प्राप्तिमपवादप्रकार च-क, ख, स्वत प्राप्तानपवादप्रकाराश्च-ग, स्वत प्राप्तमपवादप्रकार च-च
- ↑ शान्तये कलामात्र--ड, च, छ, शान्तये सर्वै सङ्कलन इति पङ्क्ति घ कोशे " उपनीतावस्यत्वमात्रेण” इति पूर्वनिर्दिष्टवाक्यस्यानन्तर प्रमादवशाल्लिखिता प्रतिभाति
- ↑ अद्य इति शब्द क, ग, च, झ कोशेषु नास्ति,