पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७१
तृतीयोऽधिकार

न स्यादिति चेन्न[१] , अनुष्ठानतस्तद्व्यवस्थापनात् । अद्यापि हि सद्य शौचं व्रत्यादिषु शिष्टैरनुष्ठीयते । न शारीरकाधिगम[२]सिद्धब्रह्मवेदनवतामपि गृहस्थानां क्वचित् तथानुष्ठान[३] दृश्यते । नन्तबाह्यकुदृष्टिसिद्धान्तव्याकुलतत्त्वाध्यवसाये, रागादिदोषान्धकारबहुले, बहुलनिशीथखद्योतकल्पगुणलवेऽपि[४] कलिविलुप्तस्वधर्मवर्गेऽस्मिन् काले ब्रह्मविदामसभवादेव तथानुष्ठानाद[५]र्शनमिति चेत् , तर्हि कस्येदानीं ब्रह्मविद सद्य शौचेन कर्मलोपं परिजिहीर्षसि ।

"कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत " ॥

इति न्यायेन य कश्चिद्यत्रक्वचिद्ब्रह्मविदथापि[६] संभवतीति चेत् सत्यम् । स तावत् व्यासागस्त्य-भृगुपति-विभीषणप्रभृतिभिस्त्वयाप्यदृष्टे क्वचित् प्रदेशे वर्तमान स्वान्तरात्मसाक्षिक तथानुतिष्ठतु नाम । तदन्येषां[७] तु भागवतमर्यादा प्रविष्टानां परिपूर्णब्रह्मवित्त्वाभावेऽपि [८]ह्युपनीतावस्थत्वमात्रेण द्विजत्ववत् संस्कार-वेषादियोग[९]मात्रेण भागवतत्वमात्रं सिद्धमिति तावन्मात्रवैशिष्ट्य[१०]शालिना तन्निबन्धनाघसंकोचे प्रमाण क्वचिन्न पश्याम । अत एव हि [११]

  1. न इति पद क, ख, ग, च, झ कोशेपु नास्ति
  2. शारीराधिगम इति घ कोशादन्यत्र पाठ
  3. तदनुष्ठान-क, ख, ग, च, झ
  4. अपि शब्द क, ख, ग, च, झ कोशेषु न दृश्यते
  5. तदनुष्ठानादर्शन-क, ख, ग, च, झ
  6. ब्रह्मविदपि-क, ख, ग, च, झ
  7. अन्येषा-क, ख, ग, च, झ
  8. हि शब्द -घ, ट, छ कोशेषु नास्ति
  9. संस्कारविशेषादियोग-क, ड, च, छ, झ
  10. वैशिष्ट्य-घ कोशादन्यत्र नास्ति
  11. हि घ कोशे नास्ति