रहस्याम्नायनिष्ठानामेव तच्छाखागृह्योक्तप्रक्रियया तदभावात् । मन्त्रसिद्धान्तादिनिष्ठानां
ब्रह्मविदामपि अशौ-
चानुष्ठानम् ।
तु दीक्षितानामपि प्रक्रान्तमहोत्सवाधिकारिप्वेव तन्निषेध । यद्यपि ब्रह्मवित्त्वमेतेषामविशिष्ट[१] तथापि कृतादिषु त्रिषु[२] युगेषु तेषामपि सद्यःशौचम् । "वृत्तस्वाध्यायसंपन्नस्याघसंकोचन तथा" इति घटिकाव्य[३]वस्थावचनेन कलियुगे वृत्तादिनिमित्ताघसंकोचप्रतिषेधात् । न च वाच्यम्--
"एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वित । |
इत्यादिषूक्तस्याग्निवेदादिनिमित्तस्याघसंकोचस्याय प्रतिषेध , नतु ब्रह्मवित्त्वनिमित्तस्येति[४] । मैवम् । यथोक्तब्रह्मविदामपि वृत्तगुणशब्देन ग्रहणसम्भये संकोचकाभावात् । न च ब्रह्मविच्छब्देन प्रव्रजितग्रहणम् । ब्रह्मविदा प्रव्रजितानां च सद्यश्शौचाहत्वेन[५] पृथगुपादानात्[६] । तर्हि 'सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदा तथा" इति सहपठितानां सत्रिप्रभृतीनामपि सत्र-व्रत-ब्रह्मचर्य-दानादिगुण[७]निमित्तम् अघसंकोचनमिति तेषामप्येतत् अन्तिमयुगे
- ↑ ब्रह्मवित्त्व तेषामप्यविशिष्ट-क, ख, ग, च, झ, ब्रह्मवित्वमेव तेषामविशिष्ट--ड, छ
- ↑ त्रिषु शब्द क, च, झ कोशेषु नास्ति
- ↑ घटिका इति पद क, ख, ग, झ कोशेषु नास्ति
- ↑ इति शब्द घ, च कोशयोः नास्ति
- ↑ सद्यश्शौचानहत्वेन-घ, ड, छ
- ↑ पृथगुपादानात् । यथोक्तम् मैवम् । ब्रह्मवेदनादीनामपि-ड, छ, ब्रह्मवादिनामपि-घ, पृथगुपादानादिति यथोक्तब्रह्मविदामपि-च अत्र कोशा पाठतो बहुधा भिद्यन्ते । अस्मिस्थले-ख, ग, घ, ड कोशेषु यथोक्त इत्यस्यानन्तर मैवमित्यस्य पूर्व च पडक्तिलोपसूचकानि चिह्नानि च दृश्यन्ते । अतो वाक्यार्थो नात्र स्पष्ट
- ↑ गुण इति पद क, ख, ग, झ कोशेषु नास्ति