पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
तृतीयोऽधिकारः

अशुचिश्चाप्यनाचार सर्वावस्था गतोऽपि[१] वा ।
य स्मरेत् पुण्डरीकाक्ष स बाह्याभ्यान्तर शुचि" ॥

इत्यादिभिः कीर्तन-स्मरणयोराशौचकालेऽपि अनुष्ठेयत्वोक्ते । किंच[२],

“ संकीर्तयेज्जगन्नाथं वेद वापि समीरयेत् ।
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्" ॥

इत्यादिभिः देश-कालावस्थाधिकार्याद्यविशेषेण[३] वेदाभ्यास-ध्यान-यजनार्चन[४]स्थाने तुल्यफलतया संकीर्तनस्य विहितत्वात् , प्रपन्नाभिमतभगवत्प्रीतेश्च तावतैव सुलभत्वाच्च सर्वदेश-सर्वकालाधिकार्याद्यनुगुणं संकीर्तनमेव कर्मान्तरलोपकाले समुचितम् । विशेषतः कलिधर्मत्वाच्च[५] । कलौ युगे प्रयतस्यापि ह्यन्याशक्तस्य तदेव युक्तम् । यथाह भगवान् शौनक --' कीर्तनादेव कृष्णस्य मुक्तबन्ध, परं व्रजेत्' इति । अत एवाभिगमनस्य न कदाचिदपि लोप । अप्रयतस्यापि दूरावस्थितस्य[६] संकीर्तन-प्रणामाञ्जलिबन्ध-भाषास्तोत्र-लौकिकवाक्यमात्रपूर्वकप्रपदनैरपि तत्स्वरूपनिष्पत्ते ।

 ननु [७]भागवतस्य सदाचार्यसकाशात् सम्यगधिगतवेदान्तस्य ब्रह्मवित्त्वेन सद्य शौचविधानादनुवृत्ताशौचासिद्धे कथं कर्मविलोप । मैवम् ।

  1. सर्वावस्थागतोऽपि-घ, ड, छ
  2. किंच इति शब्दो घ कोशे नास्ति
  3. अधिकार्यादिविशेषेण, घ, अधिकार्यादिविशेषेण विहितवेदाभ्यास-ख, ग, अधिकार्याद्यविशेषेण विहित वेदाभ्यास-क, झ.
  4. ध्यानजपार्चन-क, ख, ग, घ, च
  5. कालधर्मत्वाच्च-क, ख, ग
  6. दूरादवस्थितस्य-घ, ड, छ
  7. भागवतसदाचार्य-क,ख,छ,झ, भागवतस्य सदाचार्यस्य -घ भागवतसदाचार्य-क, ख, छ, झ , भागवतस्य सदाचार्यस्य-घ
22