पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
श्रीपाञ्चरात्ररक्षा

पूर्व यदाकदाचिल्लब्धेऽवसरे[१] भवति । अत्यन्ताशक्तौ तु ऋत्विक्-पुत्र-शिष्यादिभिः स्वसमैरन्यै कार्यते । तत्र त्वयमपवाद स्मर्यते--

“विधुरो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुक ।
परार्थ कर्म कुर्वाणा पातयन्ति पतन्ति च" ॥ इति ।

ईषच्छक्तौ तु सकुंचितयजनम् । एकोपचारमारभ्य तत्तच्छक्त्याद्यनुसारेण सहस्रोपचारान्तविधानात् । “विषुवायनद्वितयपञ्चदशी' इत्यादिना प्रति- षिद्धेष्ववसरेसु वेदाभ्यासरूपस्वाध्यायो लुप्यते । तदा तत्कालमप्यनन्यपरस्य प्रधानतमो योगः समास्कन्दति । त्रयोदशीनिशामुखे च तस्याप्यपवाद केचिदिच्छन्ति । तदापि सर्वक्रियान्तरनिरोधपूर्वक मौनव्रतमनुष्ठीयमान सात्त्विकत्यागप्रक्रियया स्वकीयेन मया स्वप्रीत्यर्थ भगवतैव कार्यत इत्यनुसन्धेयम् । तस्मात् “आलोड्य सर्वशास्त्राणि" इत्यारभ्य " ध्येयो नारायण सदा" इत्यादिभिरुक्त भगवदनुस्मरणं सर्वत्र सावकाशम् । अविच्छिन्नस्मृतिसन्ततिरूपत्वादिकं तु मात्रया भज्यते ।

 एवं मृतकसूतकाद्यप्रायत्यकालेष्वपि प्रयतकर्तव्यशास्त्रीयसर्वकर्मविलोप ।

आशौचादिष्वपि
भगवत्सकीर्तनादि
कार्यम्

तदानीं तु[२] मौनावसरव्यतिरिक्तकालः संकीर्तनेन स्मरणेन च यापनीयः । 'सततं कीर्तयन्तो माम् ', ' तस्मात् सर्वेषु कालेषु', 'मामनुस्मर' इत्यादेस्तदानीं निरपवादत्वात् । प्रत्युत---

"चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ।
नाशौच कीर्तने तस्य पवित्र भगवान् हरि ।
नाशौचं कीर्तने तस्य स्मरणे वापि विद्यते ॥

  1. लब्धावसरे-क, ख, ग, च, झ
  2. विलोपवत्तदानीं-ख , विलोपात्तदानीं-ग.