पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६३
तृतीयोऽधिकारः

योगेप्रपन्नस्य अर्चा-
वतारानुसन्धान
मुख्यम् ।

मन्त्रविशेष उच्छिन्नसम्प्रदाय इति वृद्धा विदामासु तथापि स्वावगतैर्मन्त्रविशेषैरमन्त्रकं वा यथासम्भवं यथासम्प्रदाय तदनुसन्धानमस्याप्यवर्जनीयमेव[१] । “ सर्वातिशायि षाड्गुण्य सस्थितं मन्त्रबिम्बयो " इत्यादिना तस्य पूर्णत्वं सिद्धम् । श्रीवैखानसेऽपि तदनुसन्धानस्यैव मुख्यत्व प्रतिपादितम् । यथोक्त क्रियाधिकारे-----

" मानसी होमपूजा च बेरपूजेति सा त्रिधा"

इत्युपक्रम्य[२]-

" यथोपयोगशक्यत्वात् कर्तु पुष्पादिपूजनम् ।
चक्षुष. प्रीतिकरणान्मनसोऽपि तथैव च[३]
प्रीत्या संजायते भक्तिर्भक्तस्य सुलभो हरि ।
तस्मात्त्रयाणामेतेषा बेरपूजा विशिष्यते" ॥ इति ।

 आह च भगवान् शौनक.-

" सुरूपा प्रतिमा विष्णो प्रसन्नवदनेक्षणाम् ।
कृत्वात्मन प्रीतिकरी सुवर्णरजतादिभि ॥
तामर्चयेत्ता प्रणमेत्ता यजेत्ता विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् " ॥ इति ।

  1. तदनुसन्धानमप्यवर्जनीयमेव-क, ड, च, छ, झ, तथानुसन्धानमप्यवर्जनीयमेव---ख , तदनुमत्यापि वर्जनीयमेव-ग
  2. इति प्रक्रम्य-घ, ड, छ
  3. मनसो हृदयस्य च—इति घ कोशादन्यत्र पाठः