सन्धेयमिति भाष्यकाराशय प्रतीयते । न च 'भक्तियोगाख्यं रत्नम् ।
प्रपन्नानामपि योगा
नुष्ठानम् ।
इति प्रारम्भात् उपायभूतभक्तिविषयोऽयं प्रबन्ध इति भ्रमितव्यम् । अनन्यगतिकस्य प्रपत्तेरेवात्रोपायत्वेनोपदेशात् , उपायभूते फलभूते चानुसन्धानविशेषे भक्तियोगशब्दप्रवृत्त्यविरोधाच्च । तत सिद्धोपायैरप्यय योग स्वकाले निवेशनीय । योगकालानियमादैकाग्र्यानुरूपे कालान्तरेऽपि[१] कदाचिद्भवति । यामिन्या भगवद्ध्यानस्य तु पावनत्वातिशय स्मर्यते--
" उपपातकयुक्तोऽपि महापातकवानपि । |
योगस्य पञ्चप्रकार-
भगवद्रूपविषयत्वम् ।
ततश्च-
परस्मिन् व्यूहाख्ये विभवनिवहेऽर्चावतरणे |
एषु च[३] परव्यूहप्रभृतिषु चित्तालम्बनेषु प्रपत्त्येकनिष्ठा नाथमुनिप्रभृतय सुलभतमत्वेन परिपूर्णत्वाविशेषाच्च समाहितचित्तानामप्यनुसन्धेयमर्चावतारमेव चेतस शुभाश्रयमालम्बन्त [४]। तत्र यद्यपि शीघ्रसाक्षात्कारहेतुभूतो