लोकनेन सर्वदेश-सर्वकाल-सर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वसविनयावनत किकुर्वाण कृताञ्जलिपुटो भगवन्तमुपासीत । ततश्चानुभूयमानभावविशेषो निरतिशयप्रीत्या अन्यत् किचित् कर्तु द्रष्टुं स्मर्तुमशक्त पुनरपि शेषभावमेव याचमानो भगवन्तमेवाविच्छिन्नस्रोतोरूपेण अवलोकनेनावलोकयन्नासीत । ततो भगवता स्वयमेवात्मसजीवनेनाव- लोकनेनावलोक्य संस्मितमाहूय समस्तक्लेशापह निरतिशयसुखावहमात्मीय श्रीमत्पादारविन्दयुगल शिरसि कृत ध्यात्वा अमृतसागरान्तर्निमग्नसर्वायव सुखमासीत" इति ।
अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेदभूयस्तया "कैङ्कर्यत्वरातिशयाच्च प्राभातिकेऽभिगमने मितगद्यानुसन्धानमुचितम् । बृहद्गद्यं तु समाराधनकाले
योगे गद्यत्रयस्य
प्रत्येकमुपयोग-
विशेषः ।
विशेषतोऽनुसन्धेयाना स्वरूप-रूप गुणविभूति-देवी-भूषणायुध - परिजन-परिच्छद-द्वारपालपार्षदादीना यथावदनुसन्धानहेतुतया[१] "यथावस्थितस्वरूप-रूप-गुण-विभूति लीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेत् अखिलेत्यादिना" इति समाराधनस्यादौ[२] अन्ते च भाष्यकारैरेव विनियुक्तम् । श्रीवैकुण्ठगद्य तु,
"यामुनार्यसुधाम्भोधिमवगाह्य यथामति । |
इति प्रारम्भात् , पश्चादपि 'ध्यानयोगेन दृष्ट्वा' इत्यभिधानात् , फलरूपविलक्षणानुसन्धानभेदाना विधानात् , "अविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन् आसीत' इति कण्ठोक्तेश्च, योगार्थकल्पिते काले[३] विशेषतोऽनु