पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
श्रीपाञ्चरात्ररक्षाः

अतो यत्र क्वचित् भगवद्रूपे यथाशक्ति[१] निरन्तरानुसन्धान नाथमुनिप्रभृतिवत् सिद्धोपायैरपि निर्वेशनीयम्[२]

एव तु सात्त्वतोक्त सन्ध्यादिनिद्रान्तकर्मसग्रह

सात्त्वताद्युक्त साय
सन्ध्यादिकम् ।

"प्राप्तेऽथ सन्ध्यासमये स्नात्वाधोजघनावधि [३]
क्षालयित्वा तत कुर्याद्वाससा परिवर्तनम् ।
अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्नि[४] यजेत्तथा ।
यथाशक्ति जपं कुर्यादासाद्य शयन ततः ।।
समाधाय बहिर्देव निरालम्बपदे स्थितम् [५]
अप्रमत्तेन[६] वै तावदनिरुद्धेन चेतसा ।
सह तेनैव वै निद्रा यावदभ्येति साप्रतम् " ॥ इति ।

पाद्मे त्वेवमुक्तम्---

"तत पश्चिमसन्ध्याया प्राप्ताया तत्र चोदितम् ।
जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ।
अर्चयित्वा यथान्याय यथापूर्वमशेषत ।

  1. यथाशक्ति-क, ख, ग, झ कोशेषु नास्ति, अत क्वचित् भगवद्रूपनिरन्तरानु सन्धान-ख
  2. निवेशनीयम्- क, ख, ग, झ
  3. स्नात्वा वा जघनावधि-इति घ कोशादन्यत्र पाठ , स्नात्वा च जघनावधि इति
    ख कोशे
  4. अर्घ्यपूजाद्यै –क, ख, ग, झ
  5. स्थित –ड, च, छ
  6. अप्रयत्नेन-ग, घ, ड, छ