अयमेव त्वनन्यप्रयोजनस्य योग । क्षुद्रयोगान्तराणि तु सिद्ध्यन्तरार्थान्येव योगशास्त्रेषु पठ्यन्ते । यद्यप्यनन्यप्रयोजनस्यापि तत्र तत्रोक्तन्यासविद्याभेदात्, स्वनिष्ठाविषयतत्तत्सहितोक्तप्रक्रियाभेदाच्च अनुसन्धेयरूप-गुण-विभूत्यादिकं नाना भवति । तथापि स्वरूपनिरूपकानन्दत्वादिपञ्चकनिरूपितस्वरूपे सर्वशेषिणि परस्मिन् ब्रह्मणि श्रीमति पुरुषोत्तमे तत्तद्विद्योदितरूपादिविशेषविशिष्टे मनोवृत्तिनैरन्तर्यरूपत्वं योगस्याविशिष्टम् । अत एव,
"पृथग्भूतेषु दृष्टेषु चतुर्ष्वाश्रमकर्मसु । |
इति महाभारतवचनं सुसङ्गतं[१] भवति ।
अत्र तु भाष्यकाराद्युक्तनित्य-गद्य-स्तोत्रादिषु यथानुसन्धानमुक्तं तथैव
तत्सम्प्रदायनिष्ठैरनुसन्धेयम् । श्रीवैकुण्ठगद्ये तु[२] अनन्यगते
योगे अनुसन्धेया
विषया ।
प्रपत्तिमेवापवर्गोपायं विधाय, तस्यैव क्षुधितस्यारोगस्य क्षीरान्न भोजनादिवत्[३] स्वयम्प्रयोजनतयैव ध्यानयोगविशेष तदनुबन्ध्यनुसन्धानविशेषाश्च प्रपञ्चिता । तथा हि "स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम्' इत्यारभ्य “स्वामि त्वेन सुहृत्वेन गुरुत्वेन च परिगृह्य' इत्यन्तेन प्राप्य-प्रापकभूतशरण्याध्य वसायमुक्त्वा, अनन्तरम् "ऐकान्तिकात्यन्तिकपरिचर्यैकमनोरथ" इति
पुरुषार्थविशेषलिप्साया अनन्यप्रयोजनता प्रतिपाद्य , "तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वान" इत्यनन्योपायतानुसन्धानमभिधाय, “तस्यैव भगवत.' इत्यादिना "महा