पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
श्रीपाञ्चरात्ररक्षा

इति विज्ञाप्य पुरतो दण्डवत् प्रणिपत्य च ॥
होमं पितृक्रियां पश्चादनुयागादिकं च यत् ।
सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया ॥
वीक्ष्माणस्तमेवैनं चक्षुषा स्निग्धपक्ष्मणा ।
मूर्ध्नि न्यस्ताञ्जलिपुटो विनिष्क्रम्य शनैः शनैः ॥
बध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च ।
होमाद्यमनुयागान्तं वैधं कर्म समाचरेत् ॥” इति ॥

एवमष्टाङ्गयजनमध्ये स्वाध्याय-योगयोः समाहृत्योपदेशात् तत्तद्देशकालावस्थाभेदेन यथाक्रमानुष्ठानाशक्तौ इज्यादेरपि यथोचितकालान्तरे समाहरणं रहस्याम्नायादिषु प्रपञ्चितमिहाविरुद्धमिति सूचितम् । स्वाध्याय-योगयोश्च यथावसरं मात्रया सर्वत्रानुप्रवेशः प्रागेव दर्शित इति व्याख्यातः स्वाध्यायः ।।


 अथ योगं व्याख्यास्यामः । तत्र, अनन्यप्रयोजनाधिकर्तव्यो योगविशेषः

योगविधिः ।

'ईदृशः परमात्मायम्' इत्यादिना श्रीशाण्डिल्यस्मृत्युक्तः प्रागेव दर्शितः । श्रीसात्वताद्युपदिष्टयोगप्रकाराणामविरोधश्च सम्यक् समर्थितः । तत्र भगवान् पराशरस्त्वेवमाह[१]--

“आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥” इति ।

  1. तत्र पराशरस्त्वेवमाह भगवान्–क, ख, ग, झ.