इति विज्ञाप्य पुरतो दण्डवत् प्रणिपत्य च ॥ |
एवमष्टाङ्गयजनमध्ये स्वाध्याय-योगयोः समाहृत्योपदेशात् तत्तद्देशकालावस्थाभेदेन यथाक्रमानुष्ठानाशक्तौ इज्यादेरपि यथोचितकालान्तरे समाहरणं रहस्याम्नायादिषु प्रपञ्चितमिहाविरुद्धमिति सूचितम् । स्वाध्याय-योगयोश्च यथावसरं मात्रया सर्वत्रानुप्रवेशः प्रागेव दर्शित इति व्याख्यातः स्वाध्यायः ।।
अथ योगं व्याख्यास्यामः । तत्र, अनन्यप्रयोजनाधिकर्तव्यो योगविशेषः
योगविधिः ।
'ईदृशः परमात्मायम्' इत्यादिना श्रीशाण्डिल्यस्मृत्युक्तः प्रागेव दर्शितः । श्रीसात्वताद्युपदिष्टयोगप्रकाराणामविरोधश्च सम्यक् समर्थितः । तत्र भगवान् पराशरस्त्वेवमाह[१]--
“आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । |
- ↑ तत्र पराशरस्त्वेवमाह भगवान्–क, ख, ग, झ.