पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
तृतीयोऽधिकार

निर्भय. सर्वभूतेभ्यो भवेन्निर्वृ तमानस ।
कर्मण्यवसिते तस्मिन् दुर्लभे दुष्करेऽपि च ॥
अर्घ्य दत्वा यथापूर्व स्वमात्मान[१] निवेद्य च ।
स्वनिवेदनमन्त्रेण दासशिष्यात्मजात्मन ॥
सादर..स्वेन[२] शिरसा भक्तिनिघ्न[३] परात्मने ।
निदध्यात् स्वं च कर्तृत्व तस्मिन्नेव परात्मनि ।
क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान् ।
असह्यानपि सह्याश्च[४] क्रियमाणानहर्निशम् ॥
अज्ञानतोऽप्यशक्त्या[५] वा आलस्याद्दुष्टभावत ।
कृतापराध कृपया क्षन्तुमर्हसि मा विभो ॥
अज्ञानादथवा ज्ञानादशुभं यत् कृत मया ।
क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम् ॥
उपचारापदेशेन कृतानहरहर्मया।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥
शिरसा प्रार्थितेनैव प्रसन्नेन परात्मना ।
क्षान्तसर्वापचारेण करुणामृतवर्षिणा ॥

  1. स्व चात्मान-क, ख, ग, घ, ड, च, झ
  2. स्वोदक स्वेन-क, ख, च, झ , सोदक स्वेन—ग, ड, छ, स्वोकर स्येन-घ,
    अत्र 'सादर स्वेन ' इति कारिकापाठ आद्दत
  3. भक्तिनिष्ठ -क, ख, च, झ, भक्तियुक्त --ड, छ, भक्तिनिघ्नपरात्मने-कारिकापाठ
  4. असह्यानविषयाश्च क, ख, घ, च, झ , असङ्ख्यानपि सङ्ख्याश्च-ग, असङ्ख्यान-
    विषह्याश्च-कारिका
  5. अशक्त्या वाप्यालस्यात्-क, च, झ.