पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
श्रीपाञ्चरात्ररक्षा

पदं नारायणायेति शक्ति ता प्रणतोऽस्म्यहम्[१]
अकारादुत्थितं बीज वासुदेवाभिधायिन[२]
तद्बीजमस्य प्रभवं प्रणव प्रणतोऽस्म्यहम् ।
[३]मन्त्रस्य देवता चापि परमात्मानमव्ययम् ॥
नारायण परं ब्रह्म नतोऽस्मि शिरसा हरिम् ।
प्रणम्य चैव गुर्वादीन् गन्धाद्यैरभिपूज्य च ॥
अनिशं भगवद्बिबम्बमापीठादवलोकयन्[४]
जपेदष्टाक्षरं मन्त्र तदर्थमनुचिन्तयन् ॥
अष्टोत्तरसहस्र वा शत चा दश वोत्सुक ।
जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम् ॥
सपत्नीक सानुयात्रं सद्वारपगणेश्वरम् ।
कृत्वैवं मनसा योगं सुचिर हृष्टमानस ॥
उत्थाय च ततो योगाद्दण्डवत् प्रणिपत्य च ।
स्तुत्वा च बहुभि स्तोत्रै कृत्वा चापि प्रदक्षिणम् ॥
स्थित्वाग्रे देवदेवस्य कृत्वा मूर्ध्नि स्वमञ्जलिम्[५]
तत स्वस्मै प्रपन्नाय[६] दत्ते तेनाभये सति ॥

  1. प्रणमाम्यहम्-कारिकापाठ
  2. वासुदेवाभिधायिनम्-ड, छ, कारिकायामपि
  3. 'मन्त्रस्य देवता' इत्यारभ्य 'शिरसा हरिम्' इति यावत् एक श्लोक 'मन्त्र
    शक्तिः' इत्यस्य श्लोकस्य पूर्व क, ख, ग, च, झ कोशेषु पठ्यते
  4. अवलोकयेत् - क, ख, ग च, झ, कारिकायामपि
  5. 'स्वमञ्जलिम्' इत्यनन्तर 'जितन्त इति मन्त्रेण त देव शरण त्रजेत्’ इति कारिकाया श्लोकार्धम् अधिक दृश्यते
  6. तस्मै प्रसन्नाय-क, ख, ग, ड, च, छ, झ , स्वस्मै प्रसन्नाय-घ, स्वस्मे
    प्रपन्नाय इति तु कारिकापाठ