पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५३
तृतीयोऽधिकार

अयमेव क्रमो विस्तरेणोक्तस्तद्गुरुभिर्वङिवशेश्वरै । तथाहि--

प्राप्तमह्नश्चतुर्थाशं स्वाध्यायार्थमुदीरितम् ।
विज्ञाप्य विष्णवे तस्मै लव्धानुज्ञस्ततोऽपि च ॥
बाह्यार्थादखिलाच्चेत समाहृत्येन्द्रियै सह ।
जपन्नष्टाक्षरं मन्त्र प्राणायामपुर सरम् ।
प्रयत्त परया भक्त्या पूर्वमव समाहित ॥
कराड्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् ।
गुरु मन्त्रमृषिछन्दो देवताश्च[१] यथाक्रमम् ॥
शक्ति बीज च शिरसा प्रणमेदेवमादृत[२]
इद गुरुभ्य सर्वेभ्य[३] क्रियते शिरसा नम ॥
मन्त्रज्ञानप्रदातृभ्यस्तद्गुरुभ्योऽपि साप्रतम् ।
नमस्ते मन्त्रराजाय नमस्तेऽष्टाक्षरात्मने ॥
नमस्ते चेतनाधार परब्रह्माभिधायिने ।
स्थित्वान्तर्ह्रदये सर्वानात्मन सनियच्छते ॥
ऋषयेऽष्टाक्षरभ्यान्तर्यामिने हरये नम ।
अष्टाक्षरमहामन्त्रवर्णसख्याभिमानिनीम्[४]
छन्दश्च देवी गायत्री शिरसा प्रणमाम्यहम् ।
मन्त्रशक्ति स्थिता यस्मिन्नाश्रितेष्टार्थदायिनि ॥

  1. ऋषिच्छन्दोदेवताश्च -छ
  2. प्रणमेद्देवमादित –क, झ , प्रणमेदेवमादित –ख, ग, प्रणमेद्देवगादृत –च
  3. गुरुभ्य पूर्वेभ्य -- क, च, झ
  4. सख्याभिधायिनीम्-क, ख, च, झ , मुद्रितकारिकापाठश्च
20