पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
श्रीपाञ्चरात्ररक्षा

"आस्थानस्थ सदा सेव्यो विमानस्थस्तु कालत ।
स्वगृहे सर्वदा सेव्यो मध्यरात्र विना प्रभु " ॥ इति ।

मध्यरात्रेऽप्युपरागादिनिमित्तविशेषसम्भवे स्नानादिपूर्वकभगवत्सेवाजपादिकमवश्यकर्तव्यतया विधीयत इति न विरोध ।

 एतौ च स्वाध्याय-योगौ आह्निकानुयागात् पूर्वमेव केषुचित् संहिता-

स्वाध्याय-योगयो
अनुयागात् पूर्वमेव
समाहृत्यानुष्ठानम् ।

विशेषेषु समाहृत्योपदिश्यते । यथा सगृहीत नारायणमुनिभि --

" पुन प्रणम्य देवेशमह्रो भागे तुरीयके ।
द्विषडष्टषडर्णादिमन्त्रेषु स्वानुसहितम् ॥
विशेषेण जपेन्मन्त्रमष्टोत्तरसहस्रकम् ।
अष्टोत्तरशतं वापि यथाशक्ति दशावरम् ॥
गुर्वादींश्च नमस्कृत्य बीजशक्त्यादिक तथा ।
मन्त्रनाथ प्रणम्येशमापादादवलोकयन्[१]
जप्त्वा च सुचिर योगमास्थाय प्रणमेद्धरिम् ।
स्वधाम नीत्वा देवेश[२] प्रह्व सपरिवारकम् ॥
तत्रार्घ्यादिभिरभ्यर्च्घ रक्षा कृत्वास्त्रनायकै ।
पुन पुन प्रणम्याथ होमाद्य सविधाय च ।
अनुयाग तत कृत्वा कृतकृत्यो भवेन्नर." ॥ इति ।

  1. आपादादवलोकयन् इत्यारभ्य स्वधाम नीत्वा देवेश इति यावत् ख, ग कोशयो विसृष्टम्
  2. स्वधा मनसा देवेश इति क कोशे ड कोशस्य शुद्धिपत्रिकाया च दृश्यते.