पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
तृतीयोऽधिकार

एव तत्कालनियतसावित्रीहोमादिव्यतिरिक्तदशाया प्रदोषाख्यकाले मौनविधानात् मन्त्रजपादिकमपि वर्जनीयम् । यथोक्त कृष्णमन्त्रकल्पे-- "जपेन्न सन्ध्याकालेषु प्रदोषेप्वशुभेषु च' इति । विषुवायनादिषु तु स्वाध्यायजपमात्रं निषिद्ध्यते, मन्त्रजपादिकं तु विधीयते । उक्त चाष्टाक्षर जपस्य नित्यत्व बोधायनेन----

"एव गुरो[१] समारभ्य मन्त्रानुष्ठानमाचरेत् ।
अष्टाक्षर जपेद्विद्वान्नित्यमष्टसहस्रकम् ॥
अजस्वाष्टाक्षर मन्त्र नाहमश्नामि किचन ।
यावज्जीवं जपामीति पश्चादहरहर्जपेत् ॥
अष्टाक्षरजपो यस्य नित्यो नैमित्तिकोऽपि वा ।
काम्यो वापि भवेत्तस्य नित्या देवार्चना[२] स्मृता" ॥ इति ।

न चात्र मौनविधिकाले भगवद्धर्मविच्छेदः । तदानीं यथाविधि मौनानुष्ठानस्यैव[३] भगवत्सेवारूपत्वात् प्रवृत्तिविषया निवृत्तिविषया वा भगवदाज्ञैव सर्वदानुवर्तनीया इत्यच्छिद्रानुष्ठानसिद्धि । यद्यपि च अतत्क्रियस्य प्रदोषे हरिदर्शनादिक प्रतिषिध्यते तच्चानुपालित परमैकान्तिभिर्भाष्यकारादिभि, तथापि स्वगृहार्चायास्तक्रियत्वात्तदनुज्ञा[४][५] । उक्तं चैव बोधायनीये पुराणसारसमुच्चये--

  1. गुरु--घ
  2. नित्यदेवार्चना- क, ख, च, झ.
  3. यथाविहितमौनानुष्ठानस्यैव—क, ख, ड, च, छ, झ (अयमेव पाठो यथाशब्द विहीनो ग कोशेऽपि दृश्यते)
  4. स्वगृहाचर्चाया इत्यत्र स्वशब्द घ, ड, छ कोशेषु न दृश्यते
  5. तत्क्रियत्वात् इति बहुषु कोशेषु पाठ , क, झ कोशयो पर तत्क्रियात्वात् इति वर्तते.