पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
श्रीपाञ्चरात्ररक्षा

 अथ लोहितायति भास्करे यथासूत्रं सायसन्ध्योपासनम्, सायहोम,

सायसन्ध्यादिकम् ।

पुनर्यथाशक्ति भगवदभिगमनहविर्निवेदनपूर्वक[१]भोजनम् । केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्निहोत्रमन्त्रजप., ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रम । तत्र प्रमाणानि--

"उभे सन्ध्ये भगवानभिगन्तव्य"
“नानिवेद्य हरे किञ्चित् समश्नीयात्तु पावनम्"
"साय प्रातर्द्विजातीनामशन श्रुतिचोदितम् ।
 नान्तरा भोजन कुर्यादग्निहोत्रसमो विधि ॥ "
"प्राणाग्निहोत्रमन्त्राश्च विलुप्ते भोजने जपेत् ।"
"प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
तत्पूर्वापररात्रेषु युञ्जान" इत्यादीनि ॥

 अनन्यप्रयोजनाधिकर्तव्य[२] पूर्वयामस्वाध्यायश्च त्रयोदश्याप्रदोषाख्यकाले[३]

महाप्रदोषे मौना-
चरणम् ।

वर्जनीय । यथा सगृहीत कालविधाने -----

"विषुवायनद्वितयपञ्चदशीप्रथमाष्टमीषु कलिनाथतिथौ ।
रजनीमुग्वे च मदनाधिपतेर्विधिराह नाध्ययनकर्म नृणाम् ॥" इति ।

 स्मृत्यर्णवे चैतदुपात्तम्--

"मितसन्ध्यस्रयोदश्या संस्मरन्नात्मनो[४] हितम् ।
अह्नोऽष्टाशेन सयुक्त रात्र्यर्ध मौनमाचरेत् ॥ ” इति ।

  1. भगवदभिगमन- क, ख, ग, च, झ
  2. अनन्यप्रयोजनाधिकारिकर्तव्यपूर्वयाम-क,च,झ
  3. कालाशे --घ
  4. त्रयोदश्यामस्मरन्-क, ख, ग, झ, त्रयोदश्याश्च स्मरन्–घ (अत्र घ ड कोशयो पाठो अस्पष्टाक्षरा सुतरा सदिग्धौ च )