पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
तृतीयोऽधिकारः

"मनोबुद्धयभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुर पादान् शिरस्तत्रैव पञ्चमम्[१] ॥"

इत्यष्टाङ्गप्रणाम[२] च विधाय ।

अष्टाङ्गेन नमस्कृत्य ह्यपविश्याग्रतो हरे[३]
आगमाध्ययन कुर्यात् तद्वाक्यार्थविचारणम्[४]॥" इति ।

तदिह भगवत्प्रीणन स्वचित्तरञ्जकेतिहास-पुराण-स्तोत्र-निगमान्तद्वय-व्यापक मन्त्रादीना श्रवण-मनन-प्रवचन-जपादयो वाद-सवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमाना,

"पारुष्यमनृत चैव पैशुन्य चैव सर्वश ।
अनिबद्धप्रलापश्च वाडमय स्याच्चतुर्विधम् ॥"

इत्यादिनिदर्शितविविधवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासम्भवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति । शमाद्युपयुक्तशब्दशीलन कुर्यादिति स्वाध्यायसारः । उक्त हि महाभारते

"यच्छ्रुतं न विरागाय न धर्माय न शान्तये ।
सुवद्धमपि शब्देन काकवाशितमेव तत् ॥ ?” इति ।"

"न शब्दशास्राभिरतम्य मोक्ष" इत्यादि च[५]।"

  1. कूर्मवदित्युत्तरार्ध घ, ड, छ कोशेषु नास्ति
  2. इत्यादिना साष्टाङ्गप्रणाम-घ, ड, छ
  3. विभो –घ, ङ, छ
  4. विचारणात्–ड, छ
  5. इति च- क, ख, ग, च