पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
श्रीपाश्चरात्ररक्षा

इत्यादिक च द्रष्टव्यम् । उपबृहणनिरपेक्षस्य उपबृहणीयवेदभागजप एव युक्त । तत्रापि साक्षाद्भगवत्प्रतिपादक एव भागो जप्य इति श्रीशाण्डिल्यस्मृत्यादिषुक्तम् । संग्रहरुचीना महामन्त्रसक्ताना च सर्वसारभूतव्यापकमन्त्रजपोपदेश ।

 जपादिकालेऽपि गुर्वादिषु मौनवर्जन'सर्वत्रोक्तम् । आह चैव बोधायन---

स्वाध्यायमध्ये
गुर्वादिपुरस्कर।

 "जपमध्ये गुरुर्वापि वैष्णवो य समागत ।
सभाषणादिपूजा तु तस्य कृत्वानुमान्य च ॥
अनुश्राव्य तत कुर्याज्जपशेष समाहित " ।
"सर्वस्य प्रभवो यस्माद्विष्णुपादाश्रया नरा ॥
तन्मूलत क्रिया सर्वा सफलास्तु भवन्ति हि ॥" इति ।

तत्र मौनमन्त्रार्थचिन्तनादयो नियमास्तत्र तत्र ग्राह्या । शिष्य-गुरु-सब्रह्मचारिभि श्रेयोऽर्थिभिरनसूयुभि वीतरागै सह वाद, "बोधयन्त परस्परम्” इत्युक्तसवादोऽपि तत्वनिर्णयफलत्वाविशेषात् इतिहास-पुराणादिवत् स्वाध्यायकाल एव प्रवर्तनीय । स्मरन्ति चाभिगमनान्तपातिनि पूर्वयामस्वाध्याये – "जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत्" इति । "विचारोऽभ्यसन जप” इति च[१] । उक्त चानुयाग विधानानन्तरं श्रीसात्वते "समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ' इत्युक्त्वा,

  1. च कोशादन्यत्र च कारो न विद्यते