पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४७
तृतीयोऽधिकारः

त्रयाणा क्षत्रियादीना प्रपन्नाना च तत्त्वतः ।
अमन्त्रमधिकारस्तु चातुर्व्यूहक्रियाक्रमे ॥
सक्रिये मन्त्रचक्रे तु वैभवेऽपि विवेकिनाम् ।
ममतासन्निरस्ताना स्वकर्मनिरतात्मनाम् ॥
कर्मवाङ्मनसै .सम्यग्भक्ताना परमेश्वरे ।
चतुर्णामधिकारो वै वृत्ते[१] दीक्षाक्रमे सति ॥
एव सप्रतिपन्नाना मन्त्रपूर्व यथास्थितम् ।
विधानमेकमूर्तीयं समाकर्णय साम्प्रतम् ॥' इति ।

 जयादिषु चाप्तादिभेदो द्रष्टव्यः । सर्वेषामन्ततो भगवत्प्राप्ति. समाना विकलानामपि भागवतानाम् * * * * * * *

[अत्र सर्वेष्वादर्शकोशेषु ग्रन्थांशो लुप्तो विलोक्यते[२] ।]

 अथ स्वाध्याय व्याख्यास्याम । चतुर्थे काले सप्राप्ते स्वावगतवेदवाक्यार्थव्यक्तीकरणाय विदितसकलवेद-तदर्थाना स्वयोगमहिमसाक्षात्कृत

स्वाध्यायविधि ।

परावरतत्वयाथात्म्याना मनु-पराशर-पाराशर्य-शुकशौनकादीना महर्षीणा प्रबन्धान्[३] श्रवण-मनन-जपा दिभिरभ्यसेत् । तदिदमुक्तं व्यासेन तत्कालकृत्यम्–“ इतिहासपुराणाभ्या वेदं समुपबृंहयेत्' इति । दक्षेण तु “इतिहासपुराणाभ्या षष्ठ सप्तममभ्यसेत्' इति । एवम् "भुक्त्वोपस्थाय चादित्य पुराणानि सदा पठेत्'।

  1. प्राप्ते- क, च, झ
  2. कियान् ग्रन्थाशो लुप्त इति न ज्ञायते
  3. 'महर्षीणा प्रबन्धान्’ इति स्थाने ‘वेदोपबृहणानि' इति पद-क, ख, ग, च, झ कोशेषु दृश्यते