पञ्चविशापराधं तं न क्षमामि वसुन्धरे ।
परप्रापणकेनैव यस्तु मामभिगच्छति ॥
सप्तविशापराधं तं न क्षमामि वसुन्धरे ।
नवाग्र ये तु व्रीहीणामदत्वापीह भुञ्जते ॥
अष्टाविशापराध त कल्पयामि वसुन्धरे ।
अदत्वा सुमनो यो वै धूप मे दातुमिच्छति ॥
एकोनत्रिशापराधं कल्पयामि वसुन्धरे ।
सोपानत्कस्तु यो मत्यों मामेवमुपसर्पति ॥
अपराधमिमं त्रिश कल्पयामि वसुन्धरे ।
भेरीमताडयित्वा तु यस्तु मा प्रतिबोधति ॥
एकत्रिशापराध तु कल्पयामि वसुन्धरे ।
अजीर्णरसमाविष्टो यस्तु मामुपसर्पति ।
महापराध तद्विद्याद्द्वात्रिशमिह चोत्तमम्' ॥ इति ।
|
एवमेतान्यन्यानि चानर्हतानिमित्तानि परिहरत , सभवे च सानुताप यथो चितं प्रायश्चित्तमनुतिष्ठत इह समाराधनाधिकारित्वम् ।
एव जात्यादिनिबन्धनाधिकारविशेषोऽपि शास्त्रेषु श्रूयते । यथोक्तं
जात्यादिनिबन्धनो-
ऽप्यधिकारविशेष ।
श्रीसात्वते---
"अष्टाङ्गयोगसिद्धाना हृद्यागनिरतात्मनाम् ।
योगिनामधिकार स्यादेकस्मिन् हृदयेशये ।
व्यामिश्रयागमुक्ताना विप्राणा वेदवेदिनाम्[१] ।
समन्त्रे तु चतुव्यूहे त्वधिकारो[२] न चान्यथा ॥
|
- ↑ वेदवादिनाम्—ख, ङ, छ
- ↑ मन्त्रे तु चातुर्व्यूहे तु अधिकारो—क, ख, ग, च, झ