अथेदानीं मन्त्रसिद्धान्तोपास्यपररूपविषया भोगार्चनमयीम् इज्या
इज्याव्याख्यान-
प्रतिज्ञा ।
भाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन व्याख्यास्याम ।
मन्त्रसिद्धान्ते परिवारभेदस्तु गुणीभूत[१]मूर्त्यन्तरयोर्वैकल्पिक ।
तत्र प्रथममधिकारिविशेषे वृत्त-वर्तिष्यमाणयो संगति दर्शयन्,
"कर्मारम्भेण मन्त्रेण प्राप्त कालमनुस्मरेत् । |
इति प्रशसितम्, चिकीर्षितग्रन्थविषयभूतम्, अहोरात्रकृत्ये प्रधानाशं दर्शयति---'अथ परमैकान्तिनो भगवदाराधनप्रयोग वक्ष्ये' इति[२] ।
अथशब्दस्य प्रसिद्धिप्रकर्षसिद्धानन्तर्ये सभवति, अर्थान्तरतात्पर्यपरिग्रहोऽनुपपन्न
नित्यग्रन्थस्थस्य
अथशब्दस्य
विवरणम् ।
इति भाष्यादिषु स्थापितम् । अथ
गद्यै[३] यथावत् प्रपत्तिप्रतिपादनानन्तरम्, तत एव तन्निष्ठाधिकारिविशेषसिद्धिसमनन्तरं वा[४] । "यथावस्थितस्वरूप रूप-गुण विभूति लीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिना" इति वक्ष्यमाणानुसाराच्च, अत्र तथाविधशरणागतिविषयगद्यग्रन्थस्य[५] पूर्ववृत्तत्व विवक्षितमिति ज्ञायते । न च तत्र
'अखिलजगदाधार' इत्यादिवक्ष्यमाणमात्रपङ्क्तिर्विवक्षिता । तस्या प्रपत्तिकरणत्वादर्शनात्, यथावस्थितस्वरूप-रूप गुण-विभूत्यादीना च गद्य एव