पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
तृतीयोऽधिकारः

अष्टावात्मगुणा अथ स ब्रह्मण सायुज्य सालोक्य च गच्छति[१]" इति । एव सति बाह्यद्रव्यार्जनवत् सप्रीणनेषु प्रधानतमानाममानित्वादिगुणाना सदाचार्यमेवा-सत्सम्भाषणादिभिर्ज्ञानवृद्धिहेतुभि न्यायत प्रवृत्तै[२] सम्यगुपार्जनमपि पूर्वसिद्धपरिपूर्णबाह्यपूजोपकरणस्य​ उपादानकोटौ[३] निवेशनीयम् । बाह्यद्रव्याभाव इव गुणाभावेऽपि महाभारताद्युक्ताष्टादशचण्डालषड्वृषलसंज्ञितहेयगुणयोगेन अनन्तरभावीज्यानर्हत्वप्रसङ्गात् । अत एव हि तन्निर्बन्धः[४]क्रियते--–"श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली" इति । तस्मात् समाराधनोपयुक्त[५] बाह्यमान्तरं च सर्व यथार्हमुपादद्यात् । इति व्याख्यातमुपादानम् ।

सव्य पाद प्रसार्य श्रितदुरितहरं दक्षिण कुञ्चयित्वा
 जानुन्याधाय सव्येतरभुजमपरं[६] नागभोगे निधाय ।
पश्चाद्वाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
 देवीभूषादिजुष्टो नवजलदनिभ पातु दिव्य परो न[७]


  1. यस्य तु खलु इत्यारभ्य अनूद्यमानो गौतमसूत्रभाग क, ख, ड, च, छ, झ कोशेषु न दृश्यते
  2. प्रवृतै इति पद घ, ड, छ कोशेष्वेव विद्यते
  3. उपादानकाले---घ, ड, च, छ
  4. अत एव श्रुतिनिर्बन्ध---क, ग, च, अत एव हि श्रुतिनिर्बन्ध---ख, अत एव हि श्रुतेर्निर्बन्ध---ड, छ
  5. समाराधनोपकरण---क, ख, ग, च, झ
  6. सव्येतरमितरभुज---क, ख, ग, च, झ
  7. जुष्टो जनयतु जगता शम वैकुण्ठनाथः इति सङ्कल्पसूर्योदये पाठ
18