पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
तृतीयोऽधिकारः

प्रपञ्चनात्, "अनन्यशरणस्त्व​त्पादारविन्दयुगल शरणमहं प्रपद्ये" इति च तत्र कण्ठोक्ते । तस्माद्यथोक्त एवात्रा[१] अथशब्दार्थ ।

 परमश्चासौ एकान्तश्चेति परमैकान्त । सोऽम्यास्तीति परमैकान्ती ।

परमैकान्तिशब्दार्थ ।

एकत्र अन्तो निश्चय प्राप्यतया प्रापकतया च । तदुभय सभूय परमैकान्त । परमश्चासौ एकान्ती च इति वा समास । तत्राप्यनन्योपायत्वानन्यप्रयोजनत्वयो समुच्चयात् पारम्यम् । अनन्योपायत्व च अनन्यदेवताकत्वपर्यन्तम् । यथोक्तम्--

"चतुर्विधा मम जना भक्ता एव हि ते श्रुताः ।
तेषामेकान्तिन श्रेष्ठास्ते चैवानन्यदेवता ॥" इति ।

अनन्यप्रयोजनत्व च आत्मानुभवानन्दनैरपेक्ष्यपर्यन्तम् । तदप्युक्तम्---

"ये तु शिष्टास्त्रयो भक्ता फलकामा हि ते मता ।
सर्वे च्यवनधर्माण प्रतिबुद्धस्तु मोक्षभाक् ॥" इति ।

एतेन तुल्यन्यायतया भगवदनुभवानन्देऽपि[२] फलित्वाभिप्रायो निरस्त । मुक्तानन्दस्यापि सार्वभौमान्त पुरशुकक्षीरास्वादनसुखवत् स्वतन्त्रेण परेणैव स्वप्रीत्यर्थमुपपादितत्वात् । एवविधं च परमैकान्तित्व मन्त्रसिद्धान्तादिनिष्ठेष्वपि संभवतीति पूर्वाधिकारे स्थापितम् । दृश्यते च सदाचार्यसकाशाद्यथावस्थितगद्यत्रयादिश्राविणामिदानीमपि तत्सभव । तत्र हि यथावत्पारावर्यनिश्चयादन्यभक्त्युन्मूलनेन अनन्यदेवताकत्वादिक च[३] सिद्ध्यति । ता चावस्था स्वयमेवाह भगवान्[४] ---

  1. अत्र इति पद क, ख, ग, झ कोशेषु नास्ति
  2. एतेन भगवदानन्देऽपि---क, ख, ग, झ
  3. च इति पद घ कोशे न दृश्यते
  4. आह च स्वयमेव भगवान्---क, ख, ग, झ